2-1-10 अक्षशलाकासङ्ख्याः परिणा आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः
अक्ष-शलाका-सङ्ख्याः परिणा सुपा सह अव्ययीभावः समासः
'अक्ष'शब्दः, 'शलाका'शब्दः तथा च सङ्ख्यावाचकः शब्दः - एते शब्दाः समर्थेन 'परि' इत्यनेन सह समस्यन्ते । अयं समासः अव्ययीभावसंज्ञकः अस्ति ।
The word अक्ष (dice), the word शलाका (stick) and the words indicating a number - all undergo a समास with a related 'परि' शब्द, and the समास is called अव्ययीभावसमास.
अक्षशब्दः शलाकाशब्दः संख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति। कितवव्यवहारे समासोऽयमिष्यते। पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति, तत्र यदा सर्व उत्तानाः पतन्त्यवाञ्चो वा तदा पातयिता जयति, तस्यैवैतस्य विपातोऽन्यथापाते सति जायते। अक्षेणेदं न तथा वृत्तं यथा पूर्वं जये, अक्षपरि। शलाकापरि। एकपरि। द्विपरि। त्रिपरि। परमेण चतुष्परि। पञ्चसु त्वेकरूपासु जय एव भविष्यति।
अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत्।
कितवव्यवहारे च एकत्वेऽक्षशलाकयोः॥
द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ॥
<<अक्षशलाकासंख्याः परिणा>> - अक्षशलाका ।समस्यन्ते सोऽव्ययीभाव॑ इति शेषः । द्यूतव्यवहारे इति । वार्तिकमिदम् । [इद] द्यूतं तावत्पञ्चभिरक्षैः शलाकाभिर्वा भवति । यदि अक्षाः शलाका वा कत्स्ना उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति । अन्यथा पराजयत इति स्थितिः । अक्षेणेति । कर्तरि तृतीया ।विपरीतं वृत्त॑मित्यत्र वृत्तेर्भाव क्तः ।विपरीत॑मिति क्रियाविशेषणम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः । शलाकापरीति । शलाकया विपरीतं वृत्तमिति भावः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं 'द्विपरि'त्रिपरी॑त्यादि ।
अक्षशालाकासङ्क्याशब्दा इति। अक्षशलाकाशब्दौ सह्क्यावाचिनश्च शब्दा इत्यर्थः। क्वचितु-अक्षशब्दः शलाकाशब्दः सङ्ख्याशब्दाश्चोति पाठः। कितवव्यवहार इति कितवा उ द्यौउतकाराः, तेषां व्यवहालेऽक्षशलाकानां पाततं तत्रैवायं समास इष्यते, एतच्चाभुधानस्वाभाव्याल्लभ्यते। कर्व उताना इति। शलाकानामपि प्रकृतत्वात्सर्वे च सर्वाश्च सर्वे, उतानाश्च उतानाश्च उतानाः, अवाश्चश्चावाच्यशाचावाञ्चः,'पुमान्स्त्रिया' इति पुंसः शेषः। तस्यैवास्येति। पातयितुरित्यर्थः। विपातः उ पराजयः। अन्यथापाते सति, जये यादृशः पातः सर्वे उतानाः पतन्त्यवाञ्चो वेति ततोऽन्यादृशेषु केषुच्जुतानेषु, केषुचिदवाक्षु पतत्सिवत्यर्थः। अक्षेशेति। वृतापेक्षया कर्तरि तृतीया। परमेणेति। अतिशयेनातः परमित्यर्थः पञ्चपरूति न भवतीति यावत्। अस्योपपदानं स्लोकेन क्रियते। पञ्चसु त्वेकरूपेष्विति। अत्रापि पुंसः शेषः। एकरूपास्विति प्रायेण पाठः। तत्र शलाकानामेव ग्रहणम्। जय एव भविष्यतीति। लृटोऽर्थो मृग्यः, यतः पञ्चस्वेकरूपेषु जय एव भवति, तेन परमेण चतुःपरीत्यन्वयः। अक्षादयस्तृचीयान्ता इति। अन्यथा वृतावयं समास इष्यते, तत्र चाक्षादीनां कर्तृत्वातःतीयैव युक्तेति भावः। पूर्वेक्तस्येति। पूर्ववृतस्येत्यर्थः। अनेकार्थत्वाध्दातूनां वचिरिह वर्तने वर्तते, तदेव यथा न तदिति तच्छब्देन परामृश्यते। पूर्वजये वृतस्याक्षादेर्यथा दत्वृतमभूत्, यदि संप्रति तथा न भवति एवं समासो भवतीत्यर्थः। पूर्वोक्तस्येति सामान्यापेक्षमेकवचनम्। जयकालेऽक्षादीनां यदेकरूपं वर्तनं तध्दिपरीते वर्तने परिणा द्योत्ये समास इति यावत्। एकतेवऽक्षशलाकयोरिति। अक्षशलाकाशब्दयोरेकवचनान्तयोः समास इत्यर्थः। इदमप्यभिधानस्वाभाव्यादेव लभ्यते, अन्था राजपुरुषःऽ इत्यादाविवाभेदैकत्वमवगम्येत, न तु शुध्दमेकत्वम्। प्रायेण तु'कितवव्यवहारे च एकत्वे' क्षशलाकयोःऽ इति श्लोकरूपेम पठ।ल्ते, तत्रार्थान्तरं मृग्यं संहिताकार्यप्रसङ्गश्च। कितवव्यवहार इति किम्? अक्षेणेदं न तथा वतं यथा पूर्वशकटे। एकत्व इति किम्? अक्षाभ्यामक्षैर्वा इदं न तथा वृतम्। अक्षादय इति किम्? प्रसङ्गेनेदं न तथा पूर्वजये, परिणेति वचनात्सुबन्तमात्रेण न भवति॥