यावदवधारणे

2-1-8 यावत् अवधारणे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः अव्ययं

Sampurna sutra

Up

यावत् अवधारणे सुपा सह अव्ययीभावः समासः

Neelesh Sanskrit Brief

Up

'अवधारणा' (सङ्ख्यानिश्चयः) अस्मिन् अर्थे प्रयुक्तम् 'यावत्' इति अव्ययम् समर्थेन सुबन्तेन सह समस्यते । अयं समासः 'अव्ययीभावः' नाम्ना ज्ञायते ।

Neelesh English Brief

Up

When the word 'यावत्' is used in the the meaning of अवधारणा (indication of a number, For example - 'as many'), it undergoes a समास with a related सुबन्त, and the समास is called अव्ययीभावसमास.

Kashika

Up

यावदित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। अवधारणमियत्तापरिच्छेदः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावन्ति पात्राणि संभवन्ति पञ्च षड् वा तावत आमन्त्रयस्व। अवधारण इति किम्? यावद् दत्तं तावद् भुक्तम्। नावधारयामि कियद् मया भुक्तमिति॥

Siddhanta Kaumudi

Up

यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छ्लोकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यावदवधारणे>> - यावदवधारणे । इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते, सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत्परिमाणं येषामिति विग्रहे॒यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । इयद्भुक्तमिति नावधारयतीत्यर्थः ।

Padamanjari

Up