2-1-71 चतुष्पादः गर्भिण्या आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। गोगर्भिणी। अजगर्भिणी॥ चतुष्पाज्जातिरिति वक्तव्यम्॥ इह मा भूत् — कालाक्षी गर्भिणी। स्वस्तिमती गर्भिणी। चतुष्पाद इति किम्? ब्राह्मणी गर्भिणी॥
चतुष्पाज्जातिवाचिनो गर्भिणी शब्देन सह प्राग्वत् । गोगर्भिणी ।<!चतुष्पाज्जातिरिति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । स्वस्तिमती गर्भिणी ॥
<<चतुष्पादो गर्भिण्या>> - चतुष्पादो गर्भिण्या ।जातिग्रहणं कर्तव्य॑मिति वार्तिकमभिप्रेत्याह — चुत्ष्पाज्जातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः । विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी ।
चतुष्पाज्जातिरिति। केचिदाहुः - पोटादिसूत्राज्जातिग्रगणमनुवर्त्यमिति। अन्ये त्वाहुः - ये शब्दान्तरनिरपेक्षाश्चतुष्पाज्जातिवचनाः, त एवान्तरङ्गत्वाद् गृह्यन्ते, न तु कालाक्ष्यादयो यौगिकाः शब्दान्तरसंनिधानाच्चतुष्पाद्विषया इति। गर्भिणीशब्दस्य परनिपादार्थं वचनम्॥