कुमारः श्रमणादिभिः

2-1-70 कुमारः श्रमणादिभिः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। येऽत्र स्त्रीलिङ्गाः पठ्यन्ते श्रमणा, प्रव्रजिता, कुलटेत्येवमादयः, तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते। ये तु पुँल्लिङ्गा अध्यापकोऽभिरूपकः पण्डित इति, तैरुभयथा <<प्रातिपदिग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्>> इति। कुमारी श्रमणा, कुमारश्रमणा॥ श्रमणा। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण॥

Siddhanta Kaumudi

Up

कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् ॥