वर्णो वर्णेन

2-1-69 वर्णः वर्णेन आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति। कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णशबलः। लाहितशबलः। अवयवद्वारेण कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति॥

Siddhanta Kaumudi

Up

समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वर्णो वर्णेन>> - वर्णो शेषपूरणेन सूत्रं व्याचष्टे — समानाधिकरणेनेति । वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः । कृष्णसारङ्ग इति । सारङ्गः-चित्रवर्णवान् । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् । कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव । यत्तुवर्णो वर्णेष्वनेते॑ इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम् । तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र 'वर्णो वर्णेषु' इति स्वरो नेति, तच्चिन्त्यं, कर्मधारयस्वरप्रकरणेवर्णो वर्णेष्वनेते॑ इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् ।

Padamanjari

Up

'विशेषणं विशेष्येण' इति वर्तते, तत्र द्वयोः स्वरूपग्रहणेन विशेषणता भवेत्। वर्णश्चासौ वर्णैति। किं व्यावृतम्? किमन्वितम्? अथैकत्र विशेषाणां रूपस्यान्यत्र च ग्रहः? शक्लश्चासौ वर्ण इति न स्यात्, वर्णो विशेषणं शुक्लस्य वर्णत्वाव्यभिचारात्, तस्मादुभयत्र विशेषग्रहणमित्याह - वर्णविशेषवाचीत्यादि। कृष्णसारङ्ग इत्यादि। नानावर्णसमाहारः सारङ्गः, तथा सबलः, तस्य वर्णान्तरसमाहारेऽपि भावात्कार्ष्यान्वयो नियते न स्यादिति कृष्णो विशेणम्। एवं लोहिताशब्देऽपि द्रष्टव्यम्। ननु च कृष्णशब्दोऽत्रावयवे वर्तते, न समुदाये; तस्य सारङ्गत्वात्, तत्कथमवयववृतेः कृष्णशब्दस्य समुदायवृत्तिना सारङ्गशब्देन सामानाधिकरण्यमत आह - अवयवद्वारेणेत्यादि। कृष्णावयवसम्बन्धात्समुदाय एव कृष्ण उच्यत इत्यर्थः। अत एवात्र गौणं सामानाधिकरण्यमिति सूत्रारम्भः। ननु'तृतीया तत्कृतेन' इत्येवात्र सिध्दः समासः कथम्? सारङ्गशब्दो गुणवचनः सारङ्गत्वं कृष्णावय्वकृमित्यस्त्येव सिध्दिः; तत्रायमप्यर्थः -'वर्णो वर्णेष्वनेते' इति पूर्वपदप्रकृतिस्वरो न वक्तव्यो भवति, तत्पुरुषे तुल्यार्थतृतीयेत्येव सिध्दत्वात्, तदवयवं वक्तव्यमेतत्प्रतिषेधार्थम्, इह मा भूत् - कृष्णैतो लोहितैत इति। इदं तु न वक्तव्यम्? इदमपि वक्तव्यम्, इहापि यथा स्यात्-शुक्लबभ्रुः कृष्णशुक्ला हरितशुक्लः बभ्रूकपिलः, यस्य कश्चिदवयवः शुक्लः कश्चिद् बभ्रुः स समुदायोऽवयवय्वशब्दाभ्यां तथोच्यत इति नात्र तत्कृतत्वसंभवः। अत्र कृष्णसारङ्ग इत्यादौ यत्रैकोऽवयवयवशब्दः, अपरः समुदायशब्दः, तत्राव्यवस्याप्रधानत्वादुपसर्जनत्वात्पुर्वनिपातः। द्वयोस्त्ववयवशब्दयोः पर्याय इति द्रष्टव्यम्। इह यस्मिन् प्रयोगे वीरैः पुरषंस्तद्वान् ग्रामः प्रतिपादयितमिष्टस्तत्र प्रथममेवान्यपदार्थविवक्षा कार्या वीराः पुरुषा अस्मिन्सन्तीति वीरपुरुषको ग्राम इति बहुव्रीहिरेव नित्यं यथा स्यात्; अन्यथा पूर्वमनपेक्षितेऽन्यपदार्थे वीराः पुरुषा वीरुपुरुषा इति कर्मधारये कृते पश्चादन्यपदार्थविवक्षायां मत्वर्थीये सति वीरपुरुषवान् ग्राम इत्याद्यनिष्टमपि कदाचिदनुषज्येत। सर्वशब्दस्य त्वकारान्तैः कर्मधारयोऽपीष्यते। तस्माच्च मत्वर्थविवक्षायाम् ठत इनिठनौऽ इति ठनं बाधित्वा इनिरेव भवतीति वक्तव्यम् सर्व धनं सर्वधनं तदस्यास्तीति सर्वधनी, सर्वबीजी, कर्वकेशी। यत्र कर्मधारयो जातिविशेषवचनः, तत्र कर्मधारयान्मत्वर्थीयो भवति - कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः, गौरखरवदरण्यम्, गौरमृगवदिति। न हि बहुव्रीहिणा तज्जात्या तद्वतवं शक्यं प्रतिपादयितुम्॥ 70 ॥