कृत्यतुल्याख्या अजात्या

2-1-68 कृत्यतुल्याख्या अजात्या आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Kashika

Up

index: 2.1.68 sutra: कृत्यतुल्याख्या अजात्या


कृत्यप्रत्ययान्तास् तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। भोज्योष्णम्। भोज्यलवणम्। पानीयशीतम्। तुल्याख्याः तुल्यश्वेतः। तुल्यमहान्। सदृशश्वेतः। सदृशमहान्। अजात्या ति किम्? भोज्य ओदनः।

Siddhanta Kaumudi

Up

index: 2.1.68 sutra: कृत्यतुल्याख्या अजात्या


भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ॥

Balamanorama

Up

index: 2.1.68 sutra: कृत्यतुल्याख्या अजात्या


कृत्यतुल्याख्या अजात्या - कृत्यतुल्याख्या । कृत्यप्रत्ययान्ताः , तुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति । भोज्यं च तदुष्णं चेति विग्रहः ।ऋहलोण्र्य॑दिति ण्यत् । अर्हे । कृत्यप्रत्ययः । भोज्योष्णशब्दयोः क्रियागुणशब्दत्वाद्विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम् । तुल्यओत इति । तुल्यश्चासौ ओतश्चेति विग्रहः । उभयोर्गुणवचनतया विशेषणत्वाऽनियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह — सदृशओत इति । सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः । भोज्य ओदन इति । अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाऽभावेऽपि विशेषणसमासो दुर्वार इत्यत आह-प्रतिषेधेति । भोज्यशब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतयाअजात्ये॑ति पर्युदासवैयथ्र्यादिति भावः ।

Padamanjari

Up

index: 2.1.68 sutra: कृत्यतुल्याख्या अजात्या


तुल्यापर्यायाश्चेति। आख्याग्रहणं स्वरूपनिराकरणार्थमिति भावः। भोज्योष्णादावनियमे प्राप्ते पूर्वनिपातनियमार्थं वचनम्। तुल्यमहानिति।'सन्महत्' इत्यस्याकृत्यतुल्याख्येषु सावकाशत्वात्कृत्यतुल्याख्येषु परत्वादयमेव समासो यक्त इति भावः। भोज्य ओदन इति। प्रतिषेधसामर्थ्याद् विशेषणमित्यपि न भवति॥