2-1-67 युवा खलतिपलितवलिनजरतीभिः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
खलत्यादिभिः समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति। जरतीभिरिति स्त्रीलिङ्गनिर्देशः <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्>> इति ज्ञापनार्थः। युवा खलतिः, युवखलतिः। युवतिः खलती, युवखलती। युवा पलितः, युवपलितः। युवतिः पलिता, युवपलिता। युवा वलिनः, युववलिनः। युवतिर्वलिना, युववलिना। युवा जरन्, युवजरन्। युवतिर्जरती, युवजरती॥
पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्समानाधिकरण्यम् ॥
<<युवा खलतिपलितवलिनजरतीभिः>> - युवा खलति । युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्दे किमर्थमिदमित्यत आह — पूर्वेति । युवन्शब्दस्य खलत्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्याऽनियमे प्राप्ते तन्नियमार्तमिदं सूत्रमित्यर्थः । खलतिः=केशहीनशिराः ।पलितं जरसा शौक्लयं॑ 'वलिनो वलिभः समौ' इत्यमरः । युवखलतिरिति । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नलोपः । ननु युवेति पुंलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह — लिङ्गविशिष्टेति । युवखलतीति ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । युवजरतीति । जरती=वृद्धा । युवतिश्चासौ जरती चेति विग्रहः ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । ननु युवतिः कतं जरती स्यादित्यत आह — युवत्यामेवेति ।
संज्ञायूनो गहणे गार्ग्यायणः खलतिरित्यादाबेव तु स्यान्न च तस्य जरतीशब्देन सामानाधिकरण्यम्। न च गार्ग्यायणी युवतिरस्ति; सत्रियां युवसंज्ञाप्रातिषेधात्, अतो युवेति स्वरूपग्रहणमित्याह - युवाशब्द इति। खलत्यादिभिः समानाधिकरणैरिति। कथं पुनर्युवशब्दस्य जरतीशब्देन सामानाधिकरण्यम् पुंल्लिङ्गस्य स्त्रीलिङ्गेनेति, तत्राह - स्त्रीलिङ्गनिर्देश इति। अस्यां हि परिभाषायां सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्यापि ग्रहणादुपपद्यते युवतिजरतीशब्दयोः समानाधिकरण्यम्, असत्यां तु नोपपद्यत इत्यर्थापत्या परभाषा ज्ञायते। युवखलतीति।'कृदिकारादक्तिनः' 'सर्वतो' क्तिन्नर्थादित्येकेऽ इति ङीष्। वलिशब्दः पामादिः। युवजरन्निति। जरद्भिरित्यपि पाठः केनचिदाचार्येण बोधित इति पुल्लिङ्गेनापि समासो भवतीति भावः। युवतिर्जरतीति। कथं विरुध्दवाचनोः सामानाधिकरण्यम्, अन्योऽन्याधर्मोपलम्भातद्रूपत्वारोपाद्भविष्यति। यद्येवम्, विभिन्नलिङ्गयोरप्येवमेव समानाधिकरण्यसम्भवात्कथं परिभाषा ज्ञाप्यत इति चिन्त्यम्; युवशब्दस्य पूर्वानिपातनियमार्थं वचनम्, अनियमो हि गुणशब्दत्वात्स्यात्॥