2-1-66 प्रशंसावचनैः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन जातिः
जातिरिति वर्तते। जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति। रूढिशब्दाः प्रशंसावचना गृह्यन्ते मतल्लिकादयः। ते चाविष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादाना एव समानाधिकरणा भवन्ति। गोप्रकाण्डम्। अश्वप्रकाण्डम्। गोमतल्लिका। अश्वमतल्लिका। गोमचर्चिका। अश्वमचर्चिका। जातिरिति किम्? कुमारी मतल्लिका॥
एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गाः न तु विशेष्यनिध्नाः । जातिः किम् । कुमारी मतल्लिका ॥
<<प्रशंसावचनैश्च>> - प्रशंसावचनैश्च । एतैरिति । रूढआ प्रशंसावाचकैरित्यर्थः । जातिरिति ।पोटायुवती॑त्यतस्तदनुवृत्तेरिति भावः । प्राग्वदिति । समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । जातेः पूर्वंनिपातनियमार्थं सूत्रम् । गोमतल्लिकेति । मतल्लिका चासौ गौश्चेति विग्रहः । गोमचर्चिकेति । मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाण्डमिति । प्रकाण्डं चासौ गौश्चेति विग्रहः । गवोद्ध इति । उद्धश्चासौ गोश्चेति विग्रहः । 'अवङ् स्फोटायनस्य'आद्गुणः॑ । गोतल्लज इति । तल्लजश्चासौ गौश्चेति विग्रहः । सर्वत्र परवल्लिङ्गता । मतल्लिकादिशब्दानमप्रसिद्धत्वाद्व्याचष्टे — प्रशस्ता गौरित्यर्थ इति । गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात्प्रशस्तेति स्त्रीलिङ्गनिर्देशः । गोशब्दस्य पुंलिङगत्वे तु प्रशस्त इति पाठम् । ननु गोशब्दस्य पुंलिङ्गत्वे मतल्लिकामचर्चिकाप्रकाण्डशब्दानामपि विशेष्यनिग्नत्वात्पुंलिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह — मतल्लिकादय इति ।मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनी॑त्यमरः । कुमारी मतल्लिकेति । अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः । समासे तुपुंवत्कर्मधारये॑ति पुंवत्त्वं स्यादिति भावः ।
रूढिशब्दाः प्रशंसावचना गृह्यन्त इति। प्रशंसयेति वक्तव्ये वचनग्रहणादिह ग्रहणं रूढिशब्दानां प्रशंसामात्रवाचिमाम्। तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वायः, ये च जातिशब्दाः सन्तः परत्र प्रयोगात्प्रशंसां गमयन्ति सिंहो माणवक इति, ते सर्वे व्युदस्ता भवन्ति। मतल्लिकादय इति।'मतल्लिका मचर्चिका प्रकाण्डमुध्दतल्लजौ। प्रशस्तवाचकान्यमूनि' इत्यमरः। आविष्टलिङ्गत्वादिति। नियतलिङ्गत्वादित्यर्थः। स्वलिङ्गोपादाना इति। स्वस्यैव लिङ्गस्योपादानं येषु ते तथोक्ताः।'प्रशंसावचनपोटायुवति' इत्येकयोगे कर्तव्ये योगविभागश्चिन्त्यप्रयोजनः॥