2-1-65 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैः जातिः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
उभयव्यञ्जना पोटेत्यभिधीयते। गृष्टिरेकवारप्रसूता। धेनुः प्रत्यग्रप्रसूता। वशा वन्ध्या। वेहद् गर्भपातिनी। बष्कयणी तरुणवत्सा। पोटादिभिः सह जातिवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। इभपोटा। इभयुवतिः। अग्निस्तोकः। उदश्वित्कतिपयम्। गोगृष्टिः। गोधेनुः। गोवशा। गोवेहत्। गोबष्कयणी। कठप्रवक्ता। कठश्रोत्रियः। कठाध्यापकः। कठधूर्तः। जातिरिति किम्? देवदत्तः प्रवक्ता। धूर्तग्रहणमकुत्सार्थम्॥
<<पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः>> - पोटायुवति । पोटादिभिः समानाधिकरणैर्जातिवाचकं समस्यते स तत्पुरुष इत्यर्थः ।
उभयव्यञ्जनेति। व्यज्यतेऽनेन स्त्रीत्वादिकमिति व्यञ्जनमु स्तनादि, उभयोः स्त्रीपुंसयोर्व्यञ्जनं यस्याः सा तथोक्ता, नपुंसके पोटेत्यर्थः। पोटाशब्दस्तु तत्रपि स्त्रीत्वयुक्तः प्रवर्तते। शब्दानां चित्रशक्तित्वात् षण्डशब्दो यथा पुमान्॥ धूर्तग्रहणमकुत्सार्थमिति। कुत्मायां तु'कुत्सितानि कुत्सनैः' इति सिध्दमिति भावः। तत्र कठधूर्त इति। यः कठः स धूर्त इत्यर्थः, न तु कठत्वं कुत्स्यते॥