2-1-63 कतरकतमौ जातिपरिप्रश्ने आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
कतरकतमौ जातिपरिप्रश्ने वर्तमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरकठः । कतरकालापः। कतमकठः। कतमकालापः। ननु कतमशब्दस्तावज् जातिपरिप्रश्न एव व्युत्पादितः, कतरशब्दोऽपि साहचर्यात् तदर्थवृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्नग्रहणेन? एवं तर्ह्येतज् ज्ञापयति — कतमशब्दोऽन्यत्रापि वर्तत इति। तथा च प्रत्युदाहरणम्, कतरो भवतोर्देवदत्तः। कतमो भवतां देवदत्तः॥
कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥
<<कतरकतमौ जातिपरिप्रश्ने>> - कतरकतमौ । जातिपरिप्रश्ने गम्ये कतरकतमो समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति । अनयो कः कठ इत्यर्थः ।किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् । कठेन प्रोक्तमधीते कठः । वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः ।कठचरकाल्लु॑गिति तस्य लुक् । ततः 'तदधीते ' इत्यणःप्रोक्ताल्लु॑गिति लुक् । कतमकलाप इति । एषां कः कलाप इति विग्रहः कलापिना प्रोक्तमधीते कलापः ।कलापिनोऽण् ।सब्राहृचारी॑ति टिलोपः ।वा बहूनां जातिपरिप्रश्ने डतमच् । ननु घटत्वादिवत्कठशाखाध्येतृत्वादिकं न जातिः, 'आकृतिग्रहणा जातिः' इति लक्षणस्यलिङ्गानां च न सर्वभाक्, सकृदाख्यातनिग्र्राह्रा॑ इति लक्षणमस्य च तत्राऽप्रवृत्तेरित्यत आह — गोत्रं चेति । अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनातरार्थमेव जातिपरिप्रश्नग्रहणम् । एवंचाऽनयोः कतरो देवदत्त इत्यत्र न भवति समासः ।एषां कतमो देवदत्तः॑ इति तु नास्त्येव, जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु डतरतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये । एवंच 'कतम एषां देवदत्त' इत्यप्यस्ति । तत्र समासाऽभावाय जातिपरिप्रश्नग्रहणमिति शब्देन्दुशेखरे स्थ#इतम् ।
कतरकठ इति।'गोत्रं च चरणैः सह' इति जातिः तथा च प्रत्युदाहरणमिति। पूर्वं वृत्तिषूपन्यस्तमुपपन्नं भवतीति शेषः॥