2-1-62 वृन्दारकनागकुञ्जरैः पूज्यमानम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। पूज्यमानमिति वचनाद् वृन्दारकादयः पूजावचना गृह्यन्ते। गोवृन्दारकः। अश्ववृन्दारकः। गोनागः। अश्वनागः। गोकुञ्जरः। अश्वकुञ्जरः। पूज्यमानमिति किम्? सुषीमो नागः॥
गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ॥
<<वृन्दारकनागकुञ्जरैः पूज्यमानम्>> - वृन्दारकनाग ।समानाधिकरणैः समस्यते॑ इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम् । गोवृन्दारक इति । वृन्दारकशब्दो देवतावाची ।अमरा निर्जरा देवाः॑ इत्युपक्रम्यं,वृन्दारका दैवतानी॑त्यमरः । गौर्वृन्दारक इवेति विग्रहः । गौर्नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गौर्वृन्दारादितुल्यत्वात् श्रैष्ठं गम्यत इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वात्उपमितं व्याघ्रादिभि॑रित्येव सिद्धे किमर्थमिदमित्यत आह — व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादिविति भावः ।
वृन्दाकरश्बदो देवजातिवचजनः, इतरौ हस्तिजातिवचनौ, तत्रोपमानत्वे सति पूजावचनता सम्भवति। तत्र व्याघ्रादेराकृतिगणत्वात्सिध्दे समासे पूजायामेव यथा स्यान्निन्दायां मा भूदित्येवमर्थं वचनम्। इह मा भूत् - माणवकोऽयं नागो यस्मान्मूर्क इति। समान्यप्रयोगेऽपि यथा स्यादित्यन्ये। सुषीम इति संज्ञेयं नागविशेषस्य। यद्येवम्, विशेषणं विशेष्येणेत्यधिकारादेवात्र न भविष्यति, न ह्यनागः सुषीमोऽस्ति? तस्यम्; प्रत्युदाहरणदिगियं दर्शिता, माणवकोऽयं नाग इति प्रत्युदाहरणम्॥