क्तेन नञ्विशिष्टेनानञ्

2-1-60 क्तेन नञ्विशिष्टेन अनञ् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Kashika

Up

index: 2.1.60 sutra: क्तेन नञ्विशिष्टेनानञ्


नञैव विशेषो यस्य, सर्वमन्यत् प्रकृत्यादिकं तुल्यं, तन् नञ्विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ् क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति। कृतं च तदकृतं च कृताकृतम्। भुक्ताभुक्तम्। पीतापीतम्। उदतानुदितम्। नुडिटौ तद्भक्तत्वान्नैव भेदकौ। अशितानशितेन जीवति। क्लिष्टाक्लिशितेन वर्तते। कृतापकृतादीनामुपसङ्ह्रानम्। कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम्। गतप्रत्यागतम्। यातानुयातम्। क्रयाक्रयिका। पुटापुटिका। फलाफलिका। मानोन्मानिका। समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसङ्ख्यानमुत्तरपदलोपश्च। शाकप्रधानः पार्थिवः शाकपार्थिवः। कुतपसौश्रुतः। अजातौल्वलिः।

Siddhanta Kaumudi

Up

index: 2.1.60 sutra: क्तेन नञ्विशिष्टेनानञ्


नञ्विशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ।<!शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् !> (वार्तिकम्) ॥ शाकप्रियः पार्थिवः शकपार्थिवः । देवब्राह्मणः ॥

Balamanorama

Up

index: 2.1.60 sutra: क्तेन नञ्विशिष्टेनानञ्


क्तेन नञ्विशिष्टेनानञ् - क्तेन नञ्विशिष्टेनानञ् । नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह नञ्रहितं क्तान्तं समस्यते, तत्पुरुष इत्यर्थः । कृतं च तदिति । एकदेशस्य करणात्कृतम्, एकदेशान्तरस्याऽकरणात्तदेवाऽकृतम् । पूर्वनिपातनियमार्थम् । सिद्धं च तदभुक्तं चेत्यत्र तु नायं समासः, विशिष्टशब्दो ह्रत्राधिकवाची । यथादेवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट॑ इत्युक्ते अधिक इति गम्यते । नञैव विशिष्टं । नञ्मात्राधिकेन क्तान्तेनेति लभ्यते । एवंच समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति ।वर्णो वर्णेने॑ति सूत्रभाष्ये इदं वार्तिकं पठितम् । शाकपार्थिव इति । शाकः प्रियो यस्य स शाकप्रियः ।वा प्रियस्ये॑ति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्चेति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः । तत्र पूर्वखण्डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः । देवब्राआहृण इति । देवाः प्रिया यस्य स देवप्रियः, स चासौ ब्राआहृणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राआहृण इति वा विग्रहः ।

Padamanjari

Up

index: 2.1.60 sutra: क्तेन नञ्विशिष्टेनानञ्


विशिष्टशब्दोऽयमधिके वर्तते, तच्चाधिक्यं क्वचित्सावधारणम्, तद्यथा - देवदतो यज्ञदतात्स्वाध्यायेन विशिष्टः, स्वाध्यायेनैव विशिष्टोऽन्ये गुणाः समा इति गम्यते। क्वचिन्निरवधारणम्, तद्यथा - देवदतो यज्ञदत्स्वाध्यायेन विशिष्टः, स्वाध्यायेन तावद्विशिष्टोऽन्ये गुणाः समा भूयांसो वा नेतन्निरुप्यते। वाक्यस्यैकरूपत्वेऽर्थप्रकरणादिना विशेषणिर्णयः। तत्र निरञ्धारणपक्षे - सिध्दं च तदभक्तं चेत्यत्रापि स्यात्, क्तान्तयोः प्रकृतिभेदेऽपि नव तावधिक इति विशिष्टग्रहणं चानर्थकं स्यात्, क्तेन सनञा नञित्येव वाच्यं स्यात्, अतः सावधारणपक्षमाश्रित्याह - नञैव विशेषो यस्येति। प्रकृत्यादिकमित्यादिशब्देन प्रत्ययोपसर्गयोर्ग्रहणम् तत्र सिध्दं च तदभक्तं चेति प्रकृतिरतुल्या, कर्तव्यमकृतमिति प्रत्ययः, प्रकृतं चानपकृतं चेत्युपसर्गः, एवं च पूर्वपदमपि क्तान्तमेव लभ्यत इत्याह - अनञ्क्तान्तमिति। अनञिति शक्यमकर्तुम्, न हि पूर्वपदे सनञि उतरपदे नञधिको भवति। कृतं च तदकृतं चेति। अवयवधर्मेणायं समुदायस्य व्यपदेशः, एकमेव च वस्त्वेकदेशकरणात्कृतं च भवत्येकदेशाकरणादकृतं चेति नात्र कश्चिद्विरोधः। यदि तर्हि सावधारणपक्ष आश्रीयते, एवं सति यस्य नुडपरो।धिकैडागमे वा, तेन सह समासो न स्यादित्यत आह - नुडिटाविति। नुडिड्ग्रहणमागमोपलक्षणम्, न्यायस्य तुल्यत्वातेनच्छन्नाच्छन्नमिति तुगधिकस्यापि गहणम्। अशितानशितेनेति। ठश भोजनेऽ'तस्मन्नुडचि' । क्लिष्टाक्लिशितनेति।'क्लिशः क्त्वानिष्ठयोः' इति पक्षे इट्; तत्र नुट् प्रत्ययान्तभक्तः, इट् प्रत्ययभक्तस्तुक् नञ्भक्त इति सर्वेषामुतरपदेऽन्तर्भावः। इह तु छाताच्छितमिति'शाच्छाएरन्यतरस्याम्' इतीत्वे कृते नेनाधिक्यात्समासो न प्राप्नोति? अत्र केचिदाहुः - नुडिड्ग्रहण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राणमित्यत्र तु निष्ठानत्वस्यासिध्दत्वाद्भेदकत्वाभावः, गौणत्वात्सामानाधिकरण्यस्य पूर्वेण न प्राप्नोतीत्यारम्भः। पूर्वनिपातनियमार्थश्च - कृताकृतमित्येव यथा स्यात्, अकृतमिति मा भूत्। कृतापकृमिति। एकदेशस्येष्टस्य करणादेकदेशस्य चानिष्टस्य करणादेकमववस्तु कृतं भवत्यपकृतं च। भुक्तं च तदत्यवहऋतत्वात्, विभुक्तं चाशोभनत्वाद्भुक्तविभुक्तम्, विशब्दोऽत्रोशोभनत्वं द्योतयति विरूपम्। एवं पीनविपीतम्। गमनमु गतम्, प्रत्यागमनमु प्रत्यागतम्, तत् क्षुण्णभुवा प्रत्यागमनेन सह चरितं गमनं गतप्रत्यागतम्, यातं च तदनुयातं तदानीमेव पुनर्गमनात् यातानुयातम्। क्रयाक्रयिकेति। ठल्पेऽ इति कप्रत्ययः, तदन्तश्च स्वभावात्स्त्रियां वर्तते। क्रयाक्रयिकेति ठन्येपामपि दृश्यतेऽ इति दीर्घः। महान् क्रयः क्रयशब्देनोच्यते गोबलीवर्दन्यायेन। एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति। शाकपार्थवादीनामिति।'सिध्दये' इति शेषः। पृथोरपत्यं पार्थवः, केचित्पाथिवेति पठन्ति, पृथिव्या ईश्वरः पार्थिवः,'तस्येश्वरः' इत्यञ्, तस्याभ्यवहार्येषु शाकं प्रियत्वात्प्रधानम्। तत्र साहचर्यादेव तद्व्यपदेशत्वलाभादुतरपदलोपो न वक्तव्यः। समासस्तु वक्तव्यः, गौणत्वात्सामानाधिकरण्यस्य॥