श्रेण्यादयः कृतादिभिः

2-1-59 श्रेण्यादयः कृतादिभिः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

श्रेण्यादयः सुबन्ताः कृतादिभिः समानाधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति॥ श्रेण्यादिषु च्व्यर्थवचनम्॥ अश्रेणयः श्रेणयः कृताः, श्रेणिकृताः। एककृताः। श्रेण्यादयः पठ्यन्ते। कृतादिराकृतिगणः। च्व्यन्तानां तु <<कुगतिप्रादयः>> २.२.१८ इत्यनेन नित्यसमासः। श्रेणीकृताः॥ श्रेणि। एक। पूग। कुण्ड। राशि। विशिख। निचय। निधान। इन्द्र। देव। मुण्ड। भूत। श्रवण। वदान्य। अध्यापक। अभिरूपक। ब्राह्मण। क्षत्रिय। पटु। पण्डित। कुशल। चपल। निपुण। कृपण इति श्रेण्यादिः॥ कृत। मित। मत। भूत। उक्त। समाज्ञात। समाम्नात। समाख्यात। संभावित। अवधारित। निराकृत। अवकल्पित। उपकृत। उपाकृत इति कृतादिः॥

Siddhanta Kaumudi

Up

।<!श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम् !> (वार्तिकम्) ॥ अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<श्रेण्यादयः कृतादिभिः>> - श्रेण्यादयः । श्रेम्यादयः कृतादिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति । श्रेण्यादिषु समासविधौ च्व्यर्थवचनं । च्विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । अश्रेमय इति । शिल्पेन पण्येन वा जीविनां समूहाः-श्रेणयः । पूर्वं शिल्पेन पण्येन वा जीवितुमसमर्था इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति 'श्रेणिकृताः' इति भवतीत्यर्थः । श्रेणिशब्दो ह्रस्वान्तः, भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः, च्व्यर्थाऽभावात् । च्विप्रत्ययान्तस्य तु परत्वात्कुगती॑ति नित्यसमासः । ततःच्वौ चे॑ति श्रेणिशब्दस्य दीर्घः ।

Padamanjari

Up

एकेन शिल्पेन पण्येन वा येदीवन्ति, तेषां समूरः उ श्रेणिः। तत्र पृथक्स्थितानां श्रेणिकरणे यथा स्यात्, श्रेणिस्थानामेव तु दण्डादिरूपेण करणे मा भूदित्याह - श्रेण्यादिषु च्व्यर्थव्चनमितीति। श्रण्यादयः पठ।ल्न्ते इति। तेन तत्रादिशब्दो व्यवस्थावाची। कृतादिराकृतिगण इति। प्रयोगदर्शनेनाकृतिग्राह्यए गणः उ आकृतिगणः। अत्रादिशब्दः प्रकारे। च्व्यन्तानामित्यादि। परत्वादिति भावः। आकृतिगणेऽप्युदाहरणरुपेण कतिपयान्पठति। कृत॥ंअतेत्यादि॥