2-1-58 पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन विशेषणं विशेष्येण बहुलम्
पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः। चरमपुरुषः। जघन्यपुरुषः। समानपुरुषः। मध्यपुरुषः। मध्यमपुरुषः। वीरपुरुषः। पूर्वस्यैवायं प्रपञ्चः॥
पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः ।<!अपरस्यार्धे पश्चभावो वक्तव्यः !> (वार्तिकम्) ॥ अपरश्चासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैक - <{SK726}> इति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविष्यति ॥
<<पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च>> - पूर्वापर । पूर्वादय समानाधिकरणेन समस्यन्ते इत्यर्थः । विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह-पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च 'अपराध्यापकः' इत्युदाहरणमुपेक्ष्यम् । 'अपरमीमांसक' इत्युदाहरणमुचितम् । अपरस्यार्धे इति ।पश्चा॑दिति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयकरणः । चरमवैयाकरणः ।मच्यान्मः॑ । मध्यमवैयाकरणः । वीरवैयाकरणः । आक्षिपति-कथमेकवीर इति । हि=यतः, अनेन=प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात्, अतः 'एकवीरः' इति कथमित्यन्वयः । ननुपूर्वकालैके॑ति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति 'एकवीरः' इति निर्बाधमित्यत आह — पूर्वकालैकेति बाधित्वा परत्वादिति । परिहरति — बाहुलतादिति । बहुलग्रहणानुवृत्तेरस्य सूत्रस्याऽप्रवृत्तौपूर्वकाले॑त्येव समासो भवतीत्यर्थः ।
पूर्वस्यैवायं प्रपञ्चेति। गुणक्रियाशब्देन सह समासे पूर्वादीनां पूर्वनिपातनियमार्थं तु न भवति, बहुंड्लग्रहणेनैव सिध्दत्वादिति मन्यते॥