उपमानानि सामान्यवचनैः

2-1-55 उपमानानि सामान्यवचनैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपमीयतेऽनेनेत्युपमानम्। उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। उपमानोपमेययोः साधारणो धर्मः सामान्यम्, तद्विशिष्टोपमेयवचनैरयं समासः। शस्त्रीव श्यामा,शस्त्रीश्यामा देवदत्ता। कुमुदश्येनी। हंसगद्गदा। न्यग्रोधपरिमण्डला। उपमानानीति किम्? देवदत्ता श्यामा। सामान्यवचनैरिति किम्? फाला इव तण्डुलाः। पर्वता इव बलाहकाः॥

Siddhanta Kaumudi

Up

घन इव श्यामो घनयामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥

Laghu Siddhanta Kaumudi

Up

घन इव श्यामो घनश्यामः। <<शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्>> (वार्त्तिकम्) । शाकप्रियः पार्थिवः शाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपमानानि सामान्यवचनैः>> - उपमानानि । उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तानि — उपमानानि । सादृश्यनिरूपकाणीत्यर्थः । सामान्यम्ुपमानोपमेयसाधारणधर्मः, तमुक्तवन्तः शब्दाः सामान्यवचनाः । बाहुलकः कर्तरि ल्युट् । पूर्वं सामान्यमुक्त्वा तद्विति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथाच सादृश्यनिरूपकशब्दाऽपरपर्याया उपमानशब्दा उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः । घनश्याम इति । नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याऽभावात्कथमिह समासः, इवशब्दापेक्षत्वेनाऽसामर्थ्याच्चेत्यत आह — इह पूर्वपदमिति । एवं च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामानाधिकरण्यम् । अत एव मृगीव चपला मृगचपलेत्यत्रपुंवत्कर्मधारये॑ति पुंवत्त्वं सिध्यति । घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्रम् । तथाच 'घनसदृशश्यामः' इति बोधः । सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । एवंच सादृश्यप्रतियोग्यनुयोगिनोः साधारणधर्मवत्त्वं लब्धम् । स चेह साधारणधर्म उत्तरपदोपस्थाप्य एव गृह्रते, संनिहितत्वात् । तथाच घनगतश्यामत्वसदृशश्यामत्ववानिति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह — पूर्वनिपातेति । अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभावे कामचारात्खञ्जकुब्जः कुब्जखञ्ज इतिवदनियमः स्यादिति भावः ।

Padamanjari

Up

उपमीयतेनेऽनेत्युपमानमिति। उपपूर्वान्माङ्ः करणे ल्युटि समास इति दर्शयति। भाष्ये तु मानस्य समीपमुपमानमित्यर्थकथनमात्रम्। अव्ययीभावे उपमानानीति रूपासिधिदिप्रसङ्गादिति भावः। उपपूर्वकश्च माङसादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम्, तद्यथा - गौरिव गवय इति; गौः करणम्, पुरुषः परिच्छेता, स हि गोः सादृश्येन गवयं परिच्छिनति - गोसदृशो गवय इति। सामान्यवचनैरिति। समानशब्दः धर्मः - सामान्यम्, चच्चोपमानस्य श्रुतत्वातस्य चोपमेयापेक्षत्वातयोरेव साधारणो धर्मो विज्ञायत इत्याह - उपमानोपमययोरित्यादि। तद्विशिष्टोपमेयवनैरिति। तेन साधारणेन धर्मेण विशिष्ट्ंअ यदुपमेयं तद्वचनैः, न तु साधारणधर्ममात्रवचनैरितियर्थः। वचनग्रहणाच्चायमर्थौ लभ्यते, सामान्यमुक्तवन्तः उ सामान्यवचनाः। ये सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः, यथा गुणमुक्तवान् गुणवचन इति। तच्च सामान्यवदुपमानशब्दस्य संबन्धिश्बदत्वातदाक्षिप्तमुपमेयमेव विज्ञायत इति सुष्ठूअक्तम् - तद्विशिष्टोपमेवचनैरिति। शस्त्रीश्यामेति। अत्र श्यामगुणविशिष्टत्वेन प्रमिध्दत्वादुपमानं शस्त्री, उपमेया देवदता, तयोः सअधारणो धर्मः श्यामत्वम्, तदभिधाय तद्विशिष्टायां श्यामाशब्दः पर्यवस्यातीति भवति सामान्यवचनः। ननु च समानाधिकरणेनेति। वर्तते, इह च शस्त्रीशब्दः शस्त्र्यां वर्तते, श्यामाशब्दस्तु देवदतायाम्, यदाह - ठुपमानवाचीनि सुबन्तानि तद्विशिष्टोपमेयवचनैःऽ इति; तथा विग्रहवाक्ये इवशब्दः प्रयुक्तः - शस्त्रीव श्यामेति? सत्यम्; वचनसामर्थ्यातु वैयधिकरण्येऽपि समासः। यद्येवम्, मृगीव चपला मृगचपला, हंसीव गद्गदा हंसगद्गदा, पुंवत्कर्मधारयेति सामानाधिकरण्यलक्षणः पुवद्भावो न प्राप्नोति? नैष दोषः; जातायन्तरनिवृत्तिपरायां चोदनायां स्त्रीत्वमकिञ्चित्करम्, तत्र कुक्कुटाण्डम्, मृगक्षीरमित्यादिवदिदमपि सिध्दम्। ननु चान्यदेव चापलं स्त्रियाः, अन्यदेव पुंसः? सत्यम्; जातिमात्रोपादानेऽपि प्रकरणादिवशात् स्त्रीत्वं प्रत्यायिष्यते, तच्च बहिरङ्गत्वान्न स्त्रीप्रत्ययस्य निमितम्। अन्यथा पुंवद्भावेन निवृतौ स्त्रीप्रत्ययस्य तवापि कथं विशंषावगतिः। अस्त्वेवम्, यदि तु मृगीव चपलेति स्त्रीप्रत्ययान्तस्य समासः क्रियते, तदा मृगीचपलेति प्राप्नोति, न हि तेन समासो दण्डवारितः, समानाधिकरणाधिकारश्च बाध्येत। एवं तर्हि समानाधिरकणसमास एवायम् - शस्त्री चासौ श्यामा चेति, कथं पुनर्देअवदतायां शस्त्रीश्बदः, जातिवचनो ह्यसौ सादृश्यनिमितादभोदोपचारात्, यथा - गौर्वाहीक इति। यद्येवम्, शस्त्रशब्दोऽप्युपमेये संक्रान्त इत्युपमानवाचित्वं नोपपद्यते? सत्यम्; पूर्वावस्थाश्रयेण तूपमानत्वं द्रष्टव्यम्। इवशब्दप्रयोगस्तूपमानप्रदर्शनार्थः, न प्रक्रियावाक्याङ्गमिति न कश्चिद्दोषः। ननु श्यामगुणत्वेन साधर्म्येण शस्त्रीशब्दो देवदतायां प्रयुज्यत इति श्यामशब्दो न प्रयोगार्हः, तन्न; बहवो हि शस्त्र्यां गुणाः - तीक्ष्णा सूक्ष्मा पृथुः श्यामेति, तत्रासति श्यामगुणेन शस्त्रीत्वसारोपितमिति। ननु सदपि श्यामपदं देवदतामुपस्थाप्य चरतार्थमिति नैव शस्त्रीगुणो निर्द्दिश्यते, नैतदस्ति; नैवमत्र वचनं व्यज्यते या श्यामा सा शस्त्रीवेति। कथं तर्हि शस्त्रीव श्यामा देवदतेति? अस्यां तु वचनव्यक्ताविवशब्देन तावदुपमेयनिष्ठत्वेन प्रतीयते, उपमेयनिष्ठो गुण उपमानं स्पृशत्येव। अथ वा चन्द्रमुखीत्यादावनिर्दिष्टोऽपि गुणः प्रियदर्शनत्वादिः प्रसिध्दिवशादुपमाननिमितत्वेन प्रतीयते, तदोपमेयेऽपि तावच्श्रुतः कथमुपमानं न स्प्रक्ष्यति। फाला इव तण्डुला। दीर्घत्वादिना धर्मेण॥