2-1-54 पापाणके कुत्सितैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन
पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपातार्थमिदमारभ्यते। पाप अणक एते सुबन्ते कुत्सितवचनैस्सह समस्येते, तत्पुरुषश्च समासो भवति। पापनापितः। पापकुलालः। अणकनापितः। अणककुलालः॥
पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥
<<पापाणके कुत्सितैः>> - पापाणके । पापशब्दोऽणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह — पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयोऽर्शाअद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते ।कुरूपकुत्सिताऽवद्यखेटगह्र्राऽणकाःसमाः॑ इत्यमरः । ततश्च पापाऽणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेम समासे परनिपातः स्यादतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्चासौ कुलालश्चेति विग्रहः ।