कुत्सितानि कुत्सनैः

2-1-53 कुत्सितानि कुत्सनैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते। <<विशेषणं विशेष्येण०>> २.१.५७ इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। वैयाकरणखसूचिः। निष्प्रतिभ इत्यर्थः। याज्ञिककितवः। अयाज्ययाजनतृष्णापर उच्यते। मीमांसकदुर्दुरूटः नास्तिकः। कुत्सितानीति किम्? वैयाकरणश्चौरः। नह्यत्र वैयाकरणत्वं कुत्स्यते। कुत्सनैरिति किम्? कुत्सितो ब्राह्मणः॥

Siddhanta Kaumudi

Up

कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कुत्सितानि कुत्सनैः>> - कुत्सितानि । वर्तमाने क्तः, व्याख्यानात् । तदाह — कुत्स्यमानानीति । कुत्सनैरिति करणे ल्युट् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति । वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टःसन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति ।दुल उत्क्षेपे॑चुरादिः दुर्पूर्वादौणादिकाः कूटप्रत्ययः ।बहुलमन्यत्रापी॑ति णेर्लुक् । रलयोरभेदाद्रः । यो मीमांसामधीत्याऽन्यथा जानानो दुराक्षेपं करोति स एवमुच्यते । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् ।

Padamanjari

Up

कुत्सितानीति।'कुत्स अवक्षेपणे' मत्यादिसुत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः। बहुवचननिर्देशादुभयत्रार्थग्रहणं न स्वरूपग्रहणमित्याह - कुत्सितवाचीनीति। वैयाकरणखसूचिरिति। सूचयतेः ठिच्चऽ इतीकारः। यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयति उ खं निरीक्षते - अहो निर्मलं गगलमिति, स एवसुच्यते। अत्र व्याकरणस्य वेदाङ्गस्याध्ययनं प्रशस्तमपि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते। याज्ञिककितव इति। किं तवास्तीति धनमात्रप्रश्नेन जात्यादिनिरपेक्षो द्यौउते प्रवर्तमानः कितवः। इह तु कितव इव कितवः, यो याज्ञिको याज्यस्य धनसतामेवापेक्षते न यागार्हताम्, स याज्ञिककितव इत्युच्यते, तदाह - अयाज्ययाजकस्तृष्णपपर इति। मीमांसकदुर्दुरूट इति।'दुल उत्क्षेपे' , दुःपुर्वः औणादिकः कूटप्रत्ययः।'बहुलमन्यत्रापि' इति णिलुक्, लरयोरेकविषयत्वस्मरणाद् दुर्दुरुट इति भवति। वैयाकरणश्चौर इति। कथमेतत्प्रत्युदाहरणम्, यावता चौरतवेन गर्ह्यमाणत्वाद्भवत्येव वैयाकरणकुत्सा, तत्रह - न ह्यत्रेति। प्रत्यासतेः शब्दप्रवृतेः शब्दप्रवृत्तिनिमितकुत्सायां समासेन भवितव्यम्, अत्र च वैयाकरणः कुत्स्यते चौरत्वेन, न तु वैयाकरणत्वम्। कुत्सिनो ब्राह्मण इति। अत्र'विशेषणं विशेष्यण' इति भवितव्यमेव समासेन। यदि नेष्यते, बहुलग्रहणं शरणम्॥