2-1-22 तत्पुरुषः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा
तत्पुरुष इति संज्ञाधिक्रियते प्राग् बहुव्रीहेः २.२.२३। यानित ऊर्ध्वमनुक्रमिष्यामः, तत्पुरुषसंज्ञास्ते वेदितव्याः। वक्ष्यति — <<द्वितीया श्रितातीतपतित०>> २.१.२४ इति — कष्टश्रितः। पूर्वाचार्यसंज्ञा चेयं महती, तदङ्गीकरणमुपाधेरपि तदीयस्य परिग्रहार्थम् — उत्तरपदार्थप्रधानस्तत्पुरुष इति। तत्पुरुषप्रदेशाः — <<तत्पुरुषे कृति बहुलम्>> ६.३.१४ इत्येवमादयः ॥
अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥
अधिकारोऽयं प्राग्बहुव्रीहेः॥
<<तत्पुरुषः>> - तत्पुरुषः । प्रागिति ।शेषो बहुव्रीहि॑रित्यनः प्रागित्यर्थः ।
उतरपदार्थप्रधान इति। पूर्वाकायः, अर्ध्दपिप्पलीत्यादौ त्वधिकार वशातत्पुरुष इति संज्ञा॥