क्षेपे

2-1-47 क्षेपे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी क्तेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्षेपो निन्दा। क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। अवतप्तेनकुलस्थितं तवैतत्। चापलमेतत् तव, अनवस्थितत्वं तवैतदित्यर्थः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलं यत् क्रियते तदेवमुच्यते। <<तत्पुरुषे कृति बहुलम्>> ६.३.१४ इत्यलुक्॥

Siddhanta Kaumudi

Up

सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अवतप्तेनकुलस्थितं तवैतदिति चिरन्तनप्रयोगः, तस्यार्थमाह - चापलमेततवेत्यर्थ इति। यथा अवतप्ते प्रदेशे नकुला न चिरं क्थातारो भवन्ति, एवं कार्याण्यारभ्ययश्चापलेन न चिरं तिष्ठति स एवमुच्यत इत्यर्तः।'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति नकुलस्थितशब्देन समासः, पूर्ववदलुक्॥