तत्र

2-1-46 तत्र आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी क्तेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तत्रेत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रकृतम्। तत्रपीतम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥

Siddhanta Kaumudi

Up

तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्षेपे>> - क्षेपे । 'सप्तमी'क्तेने॑ति चानुवर्तते । तदाह — सप्तम्यन्तमित्यादि । अवतप्तेनकुलस्थितं त एतदिति ।स्थित॑मिति भावे क्तः । नकुलेन स्थितम् ।कर्तृकरणे कृता बहुल॑मिति समासः ।कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण॑मिति परिभाषयानकुलस्थित॑शब्दोऽपि क्तान्तः, तेन सहावतप्ते इति सप्तम्यन्तस्याऽनेन समासे कृतेतत्पुरुषे कृती॑त्यलुक् । हे देवदत्त ! ते=तव, एतत्वस्थानम्, अवतप्ते नकुलस्थित॑मित्यन्वयः । यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वर्त्त्य तव इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया ।

Padamanjari

Up

तत्रेत्येतत्सप्तम्यन्तमिति। तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादध्रकणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति मन्यते॥