क्तेनाहोरात्रावयवाः

2-1-45 क्तेन अहोरात्रावयवाः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वाह्णकृतम्। अपराह्णकृतम्। पूर्वरात्रकृतम्। अपररात्रकृतम्। अवयवग्रहणं किम्? एतत् तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि। अहनि भुक्तम्, रात्रौ वृत्तम्। बहुलग्रहणाद् रात्रिवृत्तम्, संध्यागर्जितमित्यादयः॥

Siddhanta Kaumudi

Up

अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्णकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

दिवा वृतमिति। ऐकपद्यमैकस्वर्यं च न भवति। ननु च दिवाशब्दोऽधिकरमशक्तिप्रधानः तत्रभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति प्रथमैवास्माद्भवति, अतः सप्तम्यभावादेवात्राप्रसङ्गः। नैषोऽस्ति नियमः - अधिकरणक्तिप्रधान इति; दिवामन्या रात्रिरित्यपि दर्शनात्। कथं रात्रिवृतमनुयोक्तुमुद्यतऽ इति?'कर्तृकरणे कृता बहुलम्' इति मन्यते। एवं चान्यजन्मकृतमित्याद्यपि भवति॥