कृत्यैर्ऋणे

2-1-43 कृत्यैः ऋणे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सप्तमीति वर्तते। कृत्यप्रत्ययान्तैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति, ऋणे गम्यमाने। यत्प्रत्ययान्तेनैव समास इष्यते। मासे देयमृणम्, मासदेयम्। संवत्सरदेयम्। त्र्यहदेयम्। ऋणग्रहणं नियोगोपलक्षणार्थम्। तेनेहापि समासो भवति — पूर्वाह्णे गेयं साम, पूर्वाह्णगेयम्। प्रातरध्येयोऽनुवाकः। ऋण इति किम्? मासे देया भिक्षा॥

Siddhanta Kaumudi

Up

सप्तम्यन्तं कृत्प्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयं ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाह्णेगेयं साम ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कृत्यैरृणे>> - कृत्यैरृणे ।सप्तमी॑त्यनुवर्तते । कृत्यग्रहणेन प्रत्ययग्रहणपरिभाषया कृत्यसंज्ञकप्रत्ययान्तग्रहणम् ।ऋणपदमावस्यकोपलक्षण॑मिति भाष्यम् । तदाह — ,प्तम्यन्तमित्यादि । मासे इति । सामीप्याधिकरणत्वे सप्तमी । मासाऽव्यवहितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यकोपलक्षणतायाः प्रयोजनमाह — पूर्वाह्णेगेयमिति ।तत्पुरुषे कृती॑त्यलुक् । यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम् । तेनेह न-पूर्वाह्णे दातव्या भिक्षेति ।

Padamanjari

Up

यत्प्रत्ययान्तेनैवेष्यते इति । ठल्पशःऽ इत्यनुवृतेरेतल्लभ्यते। कृत्यैरिति बहुवचनं तु प्रकृतिभेप्रायम्। ऋणग्रहणं च नियोगोपलक्षणार्थमिति। नियोगः उ अवश्यम्भावः। ऋणमवश्यदेयमिति नियोगसाहचर्यान्नियोगमात्रमुपलक्षयति। तेन किं सिध्दं भवतीत्याह - इहापीति। पूर्वाह्णोगेयमिति।'तत्पुरुषे कृति बहुलम्' इत्युलुक्। यथा ऋणमवश्यं देयम्, एवमिदमपि पूर्वाह्णेऽवश्यं गेयमिति नियोगोऽस्ति॥