ध्वाङ्क्षेण क्षेपे

2-1-42 ध्वाङ्क्षेण क्षेपे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ध्वाङ्क्षेणेत्यर्थग्रहणम्। ध्वाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति, क्षेपे गम्यमाने। तीर्थे ध्वाङ्क्ष इव, तीर्थध्वाङ्क्षः। अनवस्थित इत्यर्थः। तीर्थकाकः। तीर्थवायसः। क्षेप इति किम्? तीर्थे ध्वाङ्क्षस्तिष्ठति॥

Siddhanta Kaumudi

Up

ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ध्वाङ्क्षेण क्षेपे>> - ध्वाङ्क्षेण क्षेपे ।ध्वांक्षे॑त्यर्थग्रहणम्, व्याख्यानात् । तदाह — ध्वाङ्क्षवाचिनेति ।क्षेप॑पदं व्याचष्टे — निन्दायामिति । तीक्र्षध्वाङ्क्ष इति । ध्वाङ्क्षः=काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह — तीर्थकाक इति ।

Padamanjari

Up

'स्वं पूपं शब्दस्य' इति वचनात्पर्यायाणां न प्राप्नेतीत्य आह - ध्वाङ्क्षेणेत्यर्थग्रहणमिति। व्याख्यानाच्चैतदवसीयते। तीर्थे ध्वाङ्क्ष इवेति। उपमानोपमोयभावे सति क्षेपो गम्यते, नान्यथेतीवशब्दः प्रयुक्तः। यथा तीर्थे ध्वाङ्क्षा न चिरं स्थातारो भवन्ति, एवं कार्येष्वनवस्थितस्तीर्थध्वाङ्क्ष इर्तर्थः, तदाह - अनवस्थित इत्यर्थ इति। वृतौ त्विवार्थस्यान्तर्भावादिवशब्द्सयाप्रयोगः॥