सिद्धशुष्कपक्वबन्धैश्च

2-1-41 सिद्धशुष्कपक्वबन्धैः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सप्तमीति वर्तते। सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। सांकाश्यसिद्धः। काम्पिल्यसिद्धः। शुष्क — आतपशुष्कः। छायाशुष्कः। पक्व — स्थालीपक्वः। कुम्भीपक्वः। बन्ध — चक्रबन्धः। बहुलग्रहणस्यैवायमुदाहरणप्रपञ्चः॥

Siddhanta Kaumudi

Up

एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सिद्धशुष्कपक्वबन्धैश्च>> - सिद्धशुष्क ।सप्तमी॑त्यनुवर्तते । तदाह — एतैः सप्तम्यन्तमिति । साङ्काश्यसिद्ध इति । सङ्खाशेन निर्वृत्तं नगरं साङ्काश्यम् । तत्र सिद्धः=उत्पन्नो ज्ञातो वेत्यर्थः । आतशुष्क इति । आतपे शुष्क इति विग्रहः । स्थालीपक्व इति । स्थाल्यां पक्व इति विग्रहः ।चक्रबन्ध इति । चक्रे बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाऽभावात्पृथगुक्तिः ।

Padamanjari

Up

साङ्काश्यसिध्दिः काम्पिल्यसिध्द इति। सङ्काशेन निर्वृतं वनं साङ्कायम्। कम्पिलेन निर्वृतं काम्पिल्यम्। चातुर्थिकः सङ्काशादिभ्योण्यः तत्र तपसा सिध्द इत्यर्थः॥