2-1-39 स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः पञ्चमी
स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। स्तोक — स्तोकान्मुक्तः। अन्तिक — अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। कृच्छ्राल्लब्धः। <<पञ्चम्याः स्तोकादिभ्यः>> ६.३.२ इत्यलुक्॥ शतसहस्रौ परेणेति वक्तव्यम्॥ शतात् परे, परश्शताः। सहस्रात् परे परस्सहस्राः। राजदन्तादित्वात् परनिपातः। निपातनात्। सुडागमः॥
स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । पञ्चम्याः स्तोकादिभ्यः <{SK159}> इत्यलुक् ॥
<<स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन>> - स्तोकान्तिक । स्तोक-अन्तिक-दूर-एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः । अर्थग्रहणं स्तोकान्तिकदूरेषु संबध्यते । अल्पान्मुक्त इति । स्तोकपर्यायस्योदाहरणम् । अभ्याशादागत इति । अन्तिकपर्यायस्योदाहरणम् । विप्रकृष्टादागत इति । दूरशब्दपर्याय उदाहार्यः ।करणे च स्तोके॑ति पञ्चमी । 'दूरादागत' इत्यत्र तुदूरान्तिकार्थेभ्यः॑ इति पञ्चमी । अत्रसुपो धात्वि॑ति लुकमाशङ्क्याह — पञ्चम्याः स्तोकादिभ्य इत्यलुगिति ।