अपेतापोढमुक्तपतितापत्रस्तैरल्पशः

2-1-38 अपेतापोढमुक्तपतितापत्रस्तैः अल्पशः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः पञ्चमी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पञ्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। अपेत — सुखापेतः। अपोढ — कल्पनापोढः। मुक्त — चक्रमुक्तः। पतित — स्वर्गपतितः अपत्रस्त — तरङ्गापत्रस्तः। अल्पश इति समासस्याल्पविषयतामाचष्टे। अल्पा पञ्चमी समस्यते, न सर्वा। प्रासादात् पतितः, भोजनादपत्रस्त इत्येवमादौ न भवति। <<कर्तृकरणे कृता बहुलम्>> २.१.३२ इत्यस्यैवायं प्रपञ्चः॥

Siddhanta Kaumudi

Up

एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रसादात्पतितः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपेतापोढमुक्तपतितापत्रस्तैरल्पशः>> - अपेतापोढ । अल्पशः॑ इति स्वार्थे शस् अत एव निपातनात् । तदाह — अल्पं पञ्चम्यन्तमिति ।बह्वल्पार्था॑दिति शस्तु न भवति,बह्वल्पार्थान्मङ्गलवचन॑मिति वक्ष्यमाणत्वात् ।

Padamanjari

Up