पञ्चमी भयेन

2-1-37 पञ्चमी भयेन आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुप् सुपेति वर्तते, तस्य विशेषणमेतत्। पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। वृकेभ्यो भयम्, वृकभयम्। चौरभयम्। दस्युभयम्॥ भयभीतभीतिभीभिरिति वक्तव्यम्॥ वृकेभ्यो भीतः, वृकभीतः। वृकभीतिः। वृकभीः। पूर्वस्यैवायं बहुलग्रहणस्य प्रपञ्चः। तथा च ग्रामनिर्गतः अधर्मजुगुप्सुरित्येवमादि सिद्धं भवति॥

Siddhanta Kaumudi

Up

चोराद्भयं चोरभयम् ।<!भयभीतभीतिभीभिरिति वाच्यम् !> (वार्तिकम्) ॥ वृकभीतः । वृकभीतिः । वृकभीः ॥

Laghu Siddhanta Kaumudi

Up

चोराद्भयं चोरभयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पञ्चमी भयेन>> - पञ्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोरभयमिति ।भीत्रार्थानां भयहेतुः॑ इत्यपादानत्वात्पञ्चमी । भयभीतभिति । सूत्रे भयशब्दस्यैव ग्रहणाद्भूतादेरप्राप्ते समासे वचनम् । वृकभीत इति । वृकभीतिः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्येअपर आहे॑त्युक्त्वा भयनिर्गतजुगुप्सुभिरिति वक्तव्यमित्युक्त्वा वृकभयं ग्रामनिर्गतः, अधर्मजुगुप्सु॑रित्युदाहृतम् । चोरत्रस्तः, भोगोपरत इत्यादौसुप्सुपे॑ति वा, मयूरव्यंसकादित्वाद्वा समासः ।

Padamanjari

Up

भेयेनेति स्वरूपग्रहणादव्याप्तिरिति मत्वाऽऽह - भयभीभीतिभीभिरिति वक्तव्यमिति। एवं सूत्रन्यासः कर्तव्य इत्यर्थः। व्याख्यानात्वर्थग्रणे'वृकेभ्यस्त्रासः' इत्यादावपि प्रसङ्गः इति भावः। स तर्हि तथा न्यासः कर्तव्य? नेत्याह - पूर्वस्यैव बहुलग्रहणस्येति। यथा हि'पादहारकः' इत्यादै बहुलग्रहणात्सर्वेपाधिव्यभिचारार्थाद्भवति, एवमत्रापि भविष्यतीत्यर्थः। अधमजुगुप्सुरिति'जुगुप्साविराम' इत्यधर्मस्यापादानसंज्ञा॥