2-1-35 भक्ष्येण मिश्रीकरणम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः तृतीया
मिश्रीकरणवाचि तृतीयान्तं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। खरविशदमभ्यवहार्यं भक्ष्यम्, तस्य संस्कारकं मिश्रीकरणम्। गुडेन मिश्रा धानाः, गुडधानाः। गुडपृथुकाः। वृत्तौ क्रियाया अन्तर्भावात् पूर्वोत्तरपदयोः सामर्थ्यम्॥
गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥
<<भक्ष्येण मिश्रीकरणम्>> - भक्ष्येण । मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं-गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः । कठिन द्रव्य-खाद्यम् । पृथुकादि भक्ष्यं विवक्षितम् । गुडधाना इति ।धाना भृष्टयवे स्त्रियः॑ इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदाऽपेक्षत्वान्न सामर्थ्यमित्यत आह — मिश्रेणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेर्नाऽसामर्थ्यमिति भावः ।चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुथ्र्यन्तं गृह्रते । तदर्थ- अर्थ-बलि-हित-सुख-रक्षित-एषां द्वन्द्वः । चतुथ्र्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुथ्र्यन्तार्थो विवक्षितः । तस्मै चतुथ्र्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमासः' इति वक्ष्यमाणः समासः । चतुथ्र्यन्तवाच्यप्रयोजनकं यत्तत्तदर्थमिति पर्यवस्यति । तदाह — चतुथ्र्यन्तार्थायेत्यादिना । तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः । कुत इत्यत आह — बलिरक्षितेति । यदि तादथ्र्यमात्रेऽयं समासः स्यात्प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थं स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तृममित्यत्रापि बलेर्भूतार्थतया, रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायेति । अत्र चुत्रथ्यन्तवाच्ययूपार्थं दारु, अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह — नेहेति । रन्धनायेति । पाकायेत्यर्थः ।रध हिंसायाम् । इह पाको विवक्षितः । भावे ल्युट्, अनादेशः ।रधिभजोरची॑ति नुम् । स्थाल्याश्चतुथ्र्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः । नन्वओभ्यो घासः अआघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह — अआघासादयस्त्विति । न चैवंरन्धनायस्थाली॑त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यं, शाब्दबोधे सम्बन्धत्वतादथ्र्यन्तवकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्चरन्धनस्य स्थाली॑ति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादथ्र्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत् । तदेवं तदर्थेत्यंशः प्रपञ्चितः । अथेदानीमर्थशब्देन चतुथ्र्यन्तस्य समासे विशेषमाह — अर्थेनेति । अर्थशब्देन चतुथ्र्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंलिङ्गत्वात्परवल्लिङ्ग॑मिति सर्वत्र पुंलिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । इहोपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति — द्विजार्थ इति । तत्र द्विजायाऽयमित्यस्वपदविग्रहः । तत्रा.ञर्थशब्दस्थानेऽयमिति शब्दः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । द्विजायेति तादथ्र्यचतुर्थी । तदन्तस्याऽर्थशब्देन समासो विशेष्यसूपशब्दस्य पुंलिङ्गत्वात्समासस्य पुंलिङ्गता च । द्विजस्यो कारकः सूप इत्यर्थः । द्विजार्थेति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुंलिङ्गत्वेऽपिपरवल्लिङ्ग॑मिति पुंलिङ्गं बाधित्वाऽनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्थ्यैव तादथ्र्यस्योक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेनाऽर्थशब्देन विग्रहाऽप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव ।गुरोरिदं गुर्वर्थ॑मित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति । विग्रहः । गवामनुकूलमित्यर्थः ।हितयोगे चे॑ति शेषषष्ठपवादश्चतुर्थी॑ । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति ।तृणादिक॑मिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य रक्षितशब्देन समासः ।
खरविशदमिति। खरमु कठिनम्, विभक्तावयवम्; खरं च तद्विशदं च खरविशदम्, हनुचलनेनादनीयमित्यर्थः। यदभ्यवहार्यं तद्भक्ष्यमित्युच्यते; तत्रैव यदन्तस्य एरजन्तस्य च भक्षयते रूढत्वात्। भक्षयतिस्त्वन्यत्रापि भवति-अब्भक्षः, वायुभक्ष इति। गौणोऽत्र भक्षयतिरित्यन्ये ॥