2-1-33 कृत्यैः अधिकार्थवचने आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः तृतीया कर्तृकरणे
स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनमधिकार्थवचनम्। कर्तृकरणयोर्या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यतेऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति। कर्ता — काकपेया नदी। श्वलेह्यः कूपः। करणम् — बाष्पच्छेद्यानि तृणानि। कण्टकसंचेय ओदनः। पूर्वस्यैवायं प्रपञ्चः॥ कृत्यग्रहणे यण्ण्यतोर्ग्रहणं कर्तव्यम्॥ इह मा भूत् — काकैः पातव्या इति॥
स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥
<<कृत्यैरधिकार्थवचने>> - कृत्यैरधिकार्थवचने । अर्थवादवचनमिति । असदुक्तरित्यर्थः । वातच्छेद्यमिति । वातेन च्छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः ।ऋहलोण्र्य॑दिति कृत्यप्रत्ययः । कोमलत्वेन स्तुतिः, दुर्वलत्वेन निन्दा वा । काकपेयेति ।अचो य॑दिति यत् ।ईद्यती॑ति गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा ।
स्तुतिनिन्दाप्रयुक्तमिति। स्तुत्या निन्दया च प्रवर्तितं स्तोतुं निन्दितं च कृतमित्यर्थः। अध्यारोपितार्थवचनमिति। असन्नेवारोपितोऽध्यारोपितः। काकपेयेति। एवं नाम पूर्णतोया नदी यतटस्थैः काकैरपि शक्या पातुमिति स्तुतिः; एवं नामाल्पतोया चत्काकैरपि शक्या पातुमिति निन्दा; उभयत्र शक्यार्थे कृत्यः। श्वलेह्य इति। एवं नामाशुचिः कूपो यज्जलं श्वान एव लेढुअमर्हन्तीति निन्दा; अह्रार्थे कृत्यः। बाष्पच्छेद्यानीति। एवं नाम कोमलानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति स्तुतिः; एवं नाम कथितानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति निन्दा। कण्टकसंचेय इति। एवं नाम क्लिन्न ओदनो यत्कण्टकैः शक्यः संचेतुमिति स्तुतिः; एवं नामाल्प ओदनो यत्कण्टकैः संचीयत इति निन्दा। पूर्वस्यैवायं प्रपञ्चेति। यद्यपि स्तुतिनिन्दापरत्वात्क्रियोपादानस्य कर्तृकरणयोर्गौणत्वम्, तथापि बहुलवचनात्पूर्वेणैव सिध्दम्, तथा च काकपीता नदात्यत्राकृत्यैरप्यधिकार्थवचनैः समासो दृश्यते, अतः प्रपञ्च एवायम्, नाप्राप्तविधिः, नापि नियम इत्यर्थः॥