अत्यन्तसंयोगे च

2-1-29 अत्यन्तसंयोगे च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः द्वितीया कालाः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

काला इति वर्तते, क्तेनेति निवृत्तम्। अत्यन्तसंयोगः कृत्स्नसंयोगः, कालस्य स्वेन संबन्धिना व्याप्तिः। कालवाचिनः शब्दा द्वितीयान्ता अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति। मुहूर्तं सुखम्, मूहूर्तसुखम्। सर्वरात्रकल्याणी। सर्वरात्रशोभना॥

Siddhanta Kaumudi

Up

काला इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखं मुहूर्तसुखम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अत्यन्तसंयोगे च>> - अत्यन्तसंयोगे च । काला इत्येवेति । तेनात्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'कालाः' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्याअह — अक्तान्तार्थमिति । अत्र क्तेनेति निवृत्तमिति भावः । मुहूर्तं सुखमिति । अत्यन्त संयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः ।

Padamanjari

Up