कालाः

2-1-28 कालाः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः द्वितीया क्तेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वितीया क्तेनेति वर्तते। कालवाचिनः शब्दा द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति। अनत्यन्तसंयोगार्थं वचनम्। काला इति न स्वरूपविधिः। षण्मुहूर्ताश्चराचराः। ते कदाचिदहर्गच्छन्ति कदाचिद् रात्रिम्। अहरतिसृता मूहूर्ताः। अहस्संक्रान्ताः। रात्र्यतिसृता मुहूर्ताः। रात्रिसंक्रान्ताः। मासप्रमितश्चन्द्रमाः। मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमा इत्यर्थः॥

Siddhanta Kaumudi

Up

क्तेनेत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कालाः>> - कालाः । क्तेनेत्येवेति । क्तेनेत्यनुवर्तत एवेत्यर्थः । कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननुअत्यन्तसंयोगे चे॑त्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — अनत्यन्तेति । मासप्रमितीति । मासं प्रमित इति विग्रहः । प्रपूर्वकान्माधातोरादिकर्मणि क्तः कर्तरि चेति कर्तरि क्तः । तदाह — मासं परिच्छेत्तुमिति । इह प्रतिपच्चन्द्रेण मासस्य नात्यन्तसंयोग इति भावः ।

Padamanjari

Up

इह'काला अत्यन्तसंयोगे' इत्येको योगः कर्तव्यः, तत्र'क्तेन' इत्यस्य निवृतत्वात्सर्वत्र समासः सिध्द्यति, किमर्थं योगविभागे क्तान्तेन समासो विधीयत इत्यत आह - अनत्यन्तसंयोगार्थ वचनमिति। अनत्यन्तसंयोगमेव दर्शयति - षण्मुहूर्ता इति। चराचरा इति। चरेः पचाद्यचि'चरिचलिपतिवदीनामुपसंख्यानमाक् चाभायासस्य' इति द्विर्वचनमागागमश्चाभ्यासस्येति। चरन्तोऽनवस्थिता इत्यर्थः। कदाचिदहरिति। उतरायणे। कदाचिद्रात्रिमिति। दक्षिणायने। ततस्तैश्च षड्भिर्मुहूर्तैरह्नो रात्रेश्च नास्त्यत्यन्तसंयोगः। मासप्रमित इति। माङ् आदिकर्मणि कर्तरि क्तः, मासं परिच्छेतुमारब्धवानित्यर्थः। प्रतिपच्चन्द्रमा इति। न च तेन मासस्यात्यन्तसंयोग इति भावः॥