तृतीया तत्कृतार्थेन गुणवचनेन

2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Kashika

Up

index: 2.1.30 sutra: तृतीया तत्कृतार्थेन गुणवचनेन


सुप् सुपा इति वर्तते. तस्य विशेषणम् एतत्. तृतीयान्तम् गुणवचनेन अर्थशब्देन च सह संस्यते, तत्पुरुषश्च समासो भवति. कीदृशेन गुणवचनेन? तत्कृतेन तदर्थकृतेन, तृतीयान्तार्थकृतेन इति यावत्. शङ्कुलया खण्डः शङ्कुलाखण्डः. किरिणा काणः किरिकाणः. अर्थशब्देन धान्येन अर्थः धान्यार्थः. तत्कृतेन इति इम्? अक्ष्णा काणः. गुणवचनेन इति किम्? गोभिर्वपावान्.

Siddhanta Kaumudi

Up

index: 2.1.30 sutra: तृतीया तत्कृतार्थेन गुणवचनेन


तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.30 sutra: तृतीया तत्कृतार्थेन गुणवचनेन


तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्। शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः। तत्कृतेति किम्? अक्ष्णा काणः॥

Balamanorama

Up

index: 2.1.30 sutra: तृतीया तत्कृतार्थेन गुणवचनेन


तृतीया तत्कृतार्थेन गुणवचनेन - तृतीया तत्कृत । तत्कृतेत्यस्याऽव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह — तत्कृतेति लुप्ततृतीयाकमिति । तत्रतृतीये॑त्यनेन तृतीयान्तं विवक्षितम् ।तत्कृते॑ति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति । ततश्चतृतीयान्तं तृतीयान्तार्थकृतो यो गुणस्तद्वाचिना समस्यते॑अर्थशब्देन च तृतीयान्तं समस्येति॑ इति वाक्यद्वयं संपद्यत इति भाष्ये स्थितत् । तदाह — तृतीयान्तमित्यादिना ।गुणे॑त्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । इदं सूत्रं कृतशब्दार्थद्वारक एव सामर्थ्ये प्रवर्तते न तु साक्षात्परस्परान्वये इति भाष्ये स्पष्टम् । नचघृतेन पाटव॑मित्यत्रातिप्रसङ्गः शङ्क्यः । गुणेनेति सिद्धे वचनग्रहणाद्गुणोपसर्जनद्रव्यवाचिशब्दो गृह्रत॑ इति व्याख्यानात् । शङ्कुलाखण्ड इति । 'देवदत्त' इति शेषः ।शह्कुलाखण्डो देवदत्तः॑ इत्येव भाष्ये उदाहृतम् ।खडि भेदने॑भावे घञ् । खण्डनं खण्डः । मत्वर्थीयोऽर्वाअद्यच् । शङ्कुलयेति करणे तृतीया । शङ्कुलाकृतखण्डनक्रियावानित्यर्थः । यत्त्वाकडारादिति सूत्रभाष्येसमासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवती॑त्युक्त, तदेतत्प्रकृते न प्रवर्तते ।गुणमुक्तवता गुणवचनेने॑ति भाष्येण यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यां तदुवोतो गुणवचना॑दित्यत्रसत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षितो गुणोऽत्र गृह्रत इत्युक्तम् । तद्व्याख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात्पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम् । अर्थशब्देन समासमुदाहरति — धान्येनेति । अर्थशब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाऽभावदप्राप्तौ पृथगुक्तिः ।धान्येनेति प्रकृत्यादित्वात्तृतीया, धान्याऽभिन्नं धनमित्यर्थ॑ इति केचित् । ननु 'शङ्कुलया खण्ड' इत्यत्रकर्तृकरणे कृता बहुल॑मित्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति-तत्कृतेति किमिति ।गुणवचनेन चेत्तत्कृतेनैवे॑ति नियमार्थं तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति — अक्ष्णा काण इति । नह्रक्ष्णा काणत्वं कृतं, किन्तु रोगादिनेति भावः । गुणवचनेनेति किम् । गोभिर्वपावान् । गोसम्बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् । किन्तु न गुणवचनोऽसौ ।

Padamanjari

Up

index: 2.1.30 sutra: तृतीया तत्कृतार्थेन गुणवचनेन


तृतीयायाश्च्छन्दसे लुकि'गूणवचनेन' इत्यनेन सामानाधिकरण्यम्। अर्थेनेति पृथक् पदम्, अत एव गुणवचनेनार्थशब्देन चेति। कीदृशेन गुणवचनेन? तत्कृतेनेति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्शः, स च शब्दः। न च शब्देन गुणवचनस्य करणं सम्भवतीत्यतः सामर्थ्यातदर्थकृतेनेति विज्ञायत इत्याह - तृतीयान्तार्थकृतेनेति। यावदिति। यावच्छबदो निपातस्तात्पर्यपर्यायतां दर्शयति। अर्थद्वारकं चेदं गुणवचनस्य विशेषयणम्, अर्थ एव हि तृतीयार्थेन क्रियते, न गुणवचनः शब्दः। वचनग्रहणं किम्, यावार्थेन समासासम्भवाद् गुणवचनेवैव भविष्यति? एवं यथा विज्ञायेतगुणमुक्तवान् गुणवचनः,'कृत्यल्युटडो बहुलम्' इति लक्षितो गृह्यते, न तु यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति तच्छब्दप्रवृत्तिनिमितम्; तृतायान्तार्थकृते सर्वत्रैव तस्य भावात्। शंकुलाखण्डः, किरिकाण इति।'खडि भेदने' ,'कण निमीलने' इत्याभ्यां घञि व्युत्पादितावेतौ क्रियारूपापन्ने गणे वर्तित्वान्मतुब्लोपादभेदोपचाराद्वा त्दवति द्रव्ये वर्तेत इति गुणवचनौ भवतः। धान्येनार्थ इति। अर्थ्यत इत्यर्थः उ प्रयोजनम्, अर्थनं वार्थः उ प्रार्थना, अभिलाषः। सर्वत्र करणे तृतीयायअः समासः। अक्ष्णा काण इति। नात्राक्ष्णत्म्, किं तर्हि? अन्येनैव केनापि किर्यादिना, अक्ष्णा तु केवलं काणो लक्ष्यत इति तत्कृतत्वाभावः। किंच दघ्ना पटुअनित्यत्र मा भूदित्येवमर्थमपि तत्कृतग्रहणं कर्तव्यम्। ननु यदि दधिकृतं पाटवं विवक्षितम् - दध्ना कृतः पटुअरिति, ततो भवितव्यमेव समासेन; अथ भोजनाद्यपेक्षो दध्नः करणभावः - दध्ना भुङ्क्ते पटुअरिति, ततोऽसामर्थ्यादेव न भविष्यति? इहापि तर्हि न स्यात् - कुअंकुमेन लोहितं कोपेनं मुखमिति, अत्रापि हि कोरोतिक्रियया करण्सय सम्बन्धः - कुअंकुमेन कृतं लोहितामिति। क्व तर्हि स्यात्? शंकुलया खण्ड इत्यादावेव तु स्यात्, यत्र पूर्वोतरपदयोः क्रियाकारकलक्षणः सम्बन्धः। तस्माद्यत्रोतरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्याद्भोजनादिद्वारके सामर्थ्ये मा भूदिति तत्कृतग्रहणम्। गुणवचनेनेति किमिति। जातिवचनेषु जातेर्नित्यत्वातत्कृतस्यासम्भवः। क्रियावचने त्विष्यत एव।'कर्तृकरणे कृता बहुलम्' इति द्रव्यवाचिष्वपि तत्कृतस्यासम्भव एव। न ह्याकाशस्य तत्वं केनचित् क्रियते, अतो गुणवचनेनैव भविष्यतीति प्रश्नः। गोभिर्वपावानिति। गोसम्बन्धिदध्याद्यौपयोगादेव तस्य वपावत्वं पूवरत्वमित्यस्ति तत्कृतत्वम्, न त्वसौ गुणवचनः॥