2-1-27 सामि आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः द्वितीया क्तेन
सामीत्येतदव्ययमर्धशब्दपर्यायः, तस्यासत्त्ववाचित्वाद् द्वितीयया नास्ति संबन्धः। तत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। सा॒मिकृत॑म्। सा॒मिपी॑तम्। सा॒मिभु॑क्तम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥
सामिकृतम् ॥
<<सामि>> - सामि ।सामी॑त्यव्ययमर्धे वर्तते । तत्-क्तान्तप्रकृतिकसुबन्तेन समस्यत इत्यर्थः । सामिकृतमिति । समासाऽभावे तु तद्धितवृत्तौसामिकार्ति॑रिति स्यादिति भावः ।
तस्यासत्ववाचित्वादिति। द्रव्याधारा हि कर्मशक्तिः; अतो द्रव्यवाचिन एव द्विताया भवति, नाद्रव्यवाचिन इत्यर्थः॥