खट्वा क्षेपे

2-1-26 खट्वा क्षेपे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः द्वितीया क्तेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति। क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषाधिकारेऽपि नित्यसमास एवायम्, नहि वाक्येन क्षेपो गम्यते। खट्वारोहणं चेह विमार्गप्रस्थानस्योपलक्षणम्। सर्व एवाविनीतः खट्वारूढ इत्युच्यते। खट्वारूढो जाल्मः। खट्वाप्लुतः। अपथप्रस्थित इत्यर्थः। क्षेप इति किम्? खट्वामारूढः॥

Siddhanta Kaumudi

Up

खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<खट्वा क्षेपे>> - खट्वा क्षेपे । क्तेनेत्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा । द्वितीयेति सुपेति चानुवर्तते । तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत्प्रकृतिप्रत्ययसमुदायपरम् । खट्वाशब्दस्य क्तान्तशब्दस्य च सुब्घटितसमुदायात्मकत्वाऽसंभवादत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खट्वाप्रकृतिकमिति । खट्वारूढौ जाल्म इति ।जाल्मोऽसमीक्ष्यकारी॑त्यमरः । खट्वा अम्-आरूढ स् इत्यलौकिकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति । तत्कुत इत्य आह — न हि वाक्येनेति । वृत्त्यर्थबोधकं वाक्यं-लौकिकविग्रहः । तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दां न गमयति । 'खट्वा रूढ' इति समासस्तु रूढआ निन्दां गमयति । तथाच भाष्यम् — ॒अधीत्य रुआआत्वा गुर्वनुज्ञातेन खट्वा आरोढव्या । यस्तावदन्यथा करोति सखट्वारूढोऽयं जाल्म॑इत्युच्यते॑ इति । अत्र 'जाल्य' इत्यनेनोद्वृत्तेऽयं शब्दो रूढः अवयवार्थे तु नाभिनिवेष्टव्यमिति सूचितम् ।

Padamanjari

Up