2-1-25 स्वयं क्तेन आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः द्वितीया
स्वयमेतदव्ययमात्मनेत्यस्यार्थे वर्तते, तस्य द्वितीयया सह संबन्धो नोपपद्यत इति द्वितीयाग्रहणमुत्तरार्थमनुवर्तते। स्वयमित्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। स्व॒यंधौ॑तौ पादौ। स्व॒यंवि॑लीनमाज्यम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥
द्वितीया - <{SK686}> इति न संबद्ध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥
'धावु गतिशुध्द्योः' , ठुदितो वाऽ इति क्त्वायां विकल्पितेट्त्वात्'यस्य विभाषा' इतीट्प्रतिषेधः,'च्छवोः शूडनुनासिके च' इत्यूठ, ठेत्येदत्यूठसुऽ इति वृध्दिः। स्वयंविलीनमिति।'लीङ् श्लेषणे' ,'स्वादयओदितः' , ठोदितश्चऽ इति निष्ठानत्वम्, कृद«अहणे गतिकारकपूर्वस्यापि ग्रहणाद्विलीनशब्दः क्तान्तः। ऐकपद्यमैकस्वर्ये समासत्वादिति। समसनं समासः, संज्ञा वा, ततो हेतोरित्यर्थः ॥