संख्या वंश्येन

2-1-19 सङ्ख्या वंश्येन आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंश इत्यभिधीयते। तत्र भवो वंश्यः तद्वाचिना सुबन्तेन सह संख्या समस्यते, अव्ययीभावश्च समासो भवति। द्वौ मुनी व्याकरणस्य वंश्यौ, द्विमुनि व्याकरणस्य। त्रिमुनि व्याकरणस्य। यदा तु विद्यया तद्वतामभेदविवक्षा तदा सामानाधिकरण्यं भवति। द्विमुनि व्याकरणम्, त्रिमुनि व्याकरणमिति। जन्मना — एकविंशतिभारद्वाजम्॥

Siddhanta Kaumudi

Up

वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संख्या वंश्येन>> - संख्या वंश्येन । वंशो द्विधेति । वंशः-सन्ततिः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः सन्तानः॑ इत्यमरः । विद्यया जन्मनेति । तत्र जन्मनवांशः पुत्रादिपरम्परेति प्रसिद्धमेव । विद्यया तु वंशो गुरुपरम्परा,यस्माद्धर्मानाचिनोति स आचार्यः । तस्मै न द्रुह्रेत्कदाचन । स हि विद्यातस्तं जयति तच्छ्रेष्ठं जन्म । शरीरमेष मातापितरौ जनयतः॑ इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । वा समस्यते इति । 'सोऽव्ययीभाव' इत्यपि बोध्यम् । द्वौ मुनी वंश्याविति । विग्रहोऽयम् । मुनिशब्दो विद्यावंश्यवाचीति सूचनाय वंश्यावित्युक्तम् । द्विमुनि व्याकरणस्येति । द्वौ च तौ मुनी चेति विग्रहेविशेषणं विशेष्येण बहुल॑मिति कर्मधारयं बाधित्वाऽव्ययीभावः । अव्ययत्वात्सुब्लुक् । व्याकरमविद्यायाः प्रवर्तकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थः । त्रिमुनीति । त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः । नन्वेवंत्रिमुनि व्याकरण॑मिति सामानाधिकरण्यानुपपत्तिरित्यत आह — विद्यातद्वतामिति । यद्यपि बहुव्रीहिणाप्येतत्सिद्धं तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति — एकविशतिभ#आरद्वाजमिति एकविंशतिर्भरद्वाजा इति कर्मधारयं बाधित्वाऽव्ययीभावः । तत्र विग्रहवाक्ये भरद्वाजशब्दाद्विदादित्वादञ् ।यञञोश्चे॑ति लुक् । समासे तुउपकादिभ्योऽन्यतरस्यामद्वन्द्वे॑ इति लुगभावः ।तृतीयासप्तम्योर्बहुल॑मिति सूत्रेएकविंशतिभारद्वाज॑मिति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात् ।

Padamanjari

Up

एकलक्षण इति। एकस्वभावः सन्तानः उ सम्बन्धः, सन्तानिनामेकलक्षणत्वात्सन्तानस्यैकलक्षणत्वम्। द्वौ मुनी इति। पाणिनिकात्यायनौ। त्रिमुनीति। तौ च भाष्यकारश्च। जन्मना त्वेकलक्षणस्योदाहरणम्-एकविंसति भारद्वाजमिति। यदा तु विद्यया सहेति'लक्षणेनाभिप्रती' इत्यत्र प्रकारान्तरेणाप्ययमर्थः साधितः ॥