नदीभिश्च

2-1-20 नदीभिः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा सङ्ख्या

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संख्येत्यनुवर्तते। नदीवचनैः शब्दैः सह संख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे चायमिष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्॥

Siddhanta Kaumudi

Up

नदीभिः सह सङ्ख्या प्राग्वत् ।<!समाहारे चायमिष्यते !> (वार्तिकम्) ॥ सप्तगङ्गम् । द्वियमुनम् ॥

Laghu Siddhanta Kaumudi

Up

नदीभिः सह संख्या समस्यते। <<समाहारे चायमिष्यते>> (वार्त्तिकम्) । पञ्चगङ्गम्। द्वियमुनम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नदीभिश्च>> - नदीभिश्च । प्राग्वदिति । नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे चेति — वार्त्तिकम् । चकार एवार्थे । भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति । सप्तानां गङ्गानां समाहार इति विग्रहेतद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासं बाधित्वाऽव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयो समाहार इति विग्रहः । अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणमिति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति ।

Padamanjari

Up

नदीवचनैः शब्दैरिति। नदीभिरिति बहुवचननिर्देशात्स्वरूपस्य संज्ञा नद्याश्च ग्रहणमिति भावः। समाहारे चायमिष्यत इति। अन्यथा पुरस्तादपवादन्यायेन'पूर्वकालैक' इत्यस्यायं बाधकः स्यात्। समाहारे तु परत्वाद् द्विगुहेव स्यात्, ततश्चैकनदीत्यत्राव्ययीभावे सति तन्निबन्धनः'नदीपौर्णमास्याग्रहायणीभ्यः' इति टच् प्राप्नोति नपुंसकत्वं च, न ह्यत्र विशेषवाचिनामेव ग्रहणमिति प्रमाणमस्ति। यस्तु'गोदावर्याश्च नद्यश्च' इत्यच् समासान्तः, स पञ्चनदमित्यादावव्ययीभाव एव भवति, एकनदीत्यत्र तत्पुरुषे न भवति। समाहारविवक्षायां च एकापूपीवदेकनदमित्यपि भवति। तथान्यपदार्थेऽप्यव्ययीभावः स्याद् द्वीरावतीको देश इति। न चात्र परत्वाद्वहुव्रीहिः; अशेषत्वात्, न ह्यसति समाहारग्रणेऽयं शेषो भवति। तस्मात्सुष्ठूअक्तम् - समाहरे चायमिष्यत इति। एतच्चाभिधानस्वाभाव्याल्लभ्यते॥