पारे मध्ये षष्ठ्या वा

2-1-18 पारे मध्ये षष्ठ्या वा आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

षष्ठीसमासे प्राप्ते तदपवादोऽव्ययीभाव आरभ्यते। वावचनात् षष्ठीसमासोऽपि पक्षेऽभ्यनुज्ञायते। पारमध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति। तत्सन्नियोगेन चानयोरेकारान्तत्वं निपात्यते। पारं गङ्गायाः, पारेगङ्गम्। मध्यं गङ्गायाः, मध्येगङ्गम्। षष्ठीसमासपक्षे — गङ्गापारम्। गङ्गामध्यम्। महाविभाषया वाक्यविकल्पः क्रियते॥

Siddhanta Kaumudi

Up

पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय गङ्गापारात् । मध्ये गङ्गात् गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गायाः मध्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पारे मध्ये षष्ठ्या वा>> - पारे मध्ये । पारे मध्ये #इति न सप्तम्यन्तयोग्र्रहणं, किन्तु पारमध्यशब्दयोरेवेत्याह — पारमद्यशब्दाविति । समस्येते इति । अव्ययीभावसंज्ञौ चेत्यपि बोध्यम् । ननु पारमध्यशब्दयोरकारान्तयोग्र्रहणे कथमेकारनिर्देश इत्यत आह — एदन्तत्वं चेति । ननु विभाषेत्यधिकारादेव सिद्धेवा॑ग्रहणं किमर्थमित्यत आह — पक्षे षष्ठीतत्पुरुष इति वाग्रहणाभावेऽयमव्ययीभावसमासो विशेषविहितत्वात् षष्ठीसमासं बाधेत, तदबाधार्थं वाग्रहणमिति भावः । पारेगङ्गादानयेति । गङ्गायाः पारादिति विग्रहे अव्ययीभावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकह्रस्वत्वे पारेगङ्गशब्दात्समासात्पुनः पञ्चम्युत्पत्तिः । 'अव्ययादाप्' इति न लुक्, अदन्ततया 'नाव्ययीभावात्' इति निषेधात् । 'अपञ्चम्या' इति पर्युदासादम्भावश्च नेति भावः । गङ्गापारादिति -षष्ठीसमासपक्षे ज्ञेयम् । मद्येगङ्गादिति । पारेगङ्गादितिवद्रूपम् । गङ्गामध्यादिति -षष्ठीसमासेज्ञेयम् ।पारे मध्ये इति सप्तम्यन्ते षष्ठआ समस्येते॑ इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे संमासे सतितत्पुरुषे कृति बहुलम् इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकह्रस्वत्वे समासात्पुनरुत्वपन्नायाः सप्तम्या अम्भावे पारेमध्यं पारेगङ्गमिति सिद्धे रेकारनिर्देशो व्यर्थः स्यात् । अतो यत्र सप्तम्यर्थो न संभवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम् । ननु यदि वाग्रहणमिह पक्षे षष्ठीसमासप्राप्त्यर्थमेव स्यात्, तर्हि गङ्गायाः पारात् गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह-महाविभाषयेति । विभाषेत्यधिकृता महाविभाषा । सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेर्महत्त्वं बोध्यम् । नन्वव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात्तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्तदभावपक्षे वाक्यमपि सिध्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते,यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते ॑ इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्वं कायस्येत्यत्र #एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्तेतस्यापत्य॑मित्यण् न भवति । किं तु वाक्यमेवेति भाष्ये स्पष्टम् ।

Padamanjari

Up

वावचनादिति। ननु महाविभाषयैवापवादेऽव्ययीभावे विकल्पिते पक्षे षष्ठी समासोऽपि भविष्यति, सोऽपि विकल्पित इति वाक्यमपि भविष्यति? उच्यते - इह वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा वाक्यस्य बाधिका प्राप्नोतीति विकल्पेन वाक्यमेव पक्षेऽभ्यनुज्ञायते। तत्रापवादविकल्पो वाक्यस्यैव प्रापक इत्युत्सर्गस्य नित्यो बाधकः स्याद्, वावचनात्सोऽपि पक्षेऽभ्यनुज्ञायत इति त्रैरूप्यसिध्दिः। एतदेव वावचनं ज्ञपकम् - यत्रोत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न भवतीति। तेन पूर्वं कायस्येत्यत्रैकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र इञा मुक्तेऽण्न भवति। एकारान्तत्वनिपातनं यत्र सप्तम्यर्थो न सम्भवतिपारेगङ्गादानयेति, तदर्थम्। म्बवे तु'तुत्पुरुषे कृति बहुलम्' इति बहुलवचनादलुका सिध्दम् ॥