2-1-17 तिष्ठद्गुप्रभृतीनि च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा
तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते। तिष्ठद्गुप्रभृतीनि शब्दरूपाण्यव्ययीभावसंज्ञकानि भवन्ति। तिष्ठद्गु कालविशेषः। तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः। खलेयवादीनि प्रथमान्तानि विभक्त्यन्तरेण नैव संबध्यन्तेऽन्यपदार्थे च काले वर्तन्ते। चकारोऽवधारणार्थः। अपरः समासो न भवति परमतिष्ठद्ग्विति॥ तिष्ठद्गु। वहद्गु। आयातीगवम्। खलेयवम्। खलेबुसम्। लूनयवम्। लूयमानयवम्। पूतयवम्। पूयमानयवम्। संहृतयवम्। संह्रियमाणयवम्। संहृतबुसम्। संह्रियमाणबुसम्। एते कालशब्दाः। समभूमि। समपदाति। सुषमम्। विषमम्। निष्षमम्। दुष्षमम्। अपरसमम्। आयातीसमम्। प्राह्णम्। प्ररथम्। प्रमृगम्। प्रदक्षिणम्। अपरदक्षिणम्। संप्रति। असंप्रति। पापसमम्। पुण्यसमम्। इच् कर्मव्यतिहारे (ग०सू० १७) — दण्डादण्डि। मुसलामुसलि॥
एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः दोहनकालः । आयतीगवम् इत्यादि । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥
<<तिष्ठद्गुप्रभृतीनि च>> - तिष्ठद्गुप्रभृतीनि च । एतानीति शब्दरूपाणीत्यर्थः । तिष्ठन्ति गाव इति । फलितार्थकथनम् । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम्, 'सुप्सुपः' इत्यनुवृत्तेः । दोहनकाल इति । तदा गवां शयनोपवेशनयोरभावादिति भावः । आयतीगवमिति । आयत्यो गावो यस्मिन् काले इति विग्रहः । इहेति । उदाहरणद्वये इत्यर्थः । शत्रादेश इति । 'तिष्ठन्त्यो गाव' इति 'आयत्यो गाव' इति च प्रथमासमानाधिकरणत्वात् 'लटश्शतृशानचौ' इत्यस्याऽप्राप्तौ तन्निपातनमिति भावः । पुंवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि 'स्त्रियाः पुंवत्' इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः । समासान्तश्चेति । आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः ।समासान्तश्चे॑ति चकारादव्ययीभावश्च निपात्यते इति ज्ञेयम् । तथा च तिष्ठद्गोशब्दस्य नपुंसकह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । औगतीगवशब्दात्तु 'नाव्ययीभावात्' इत्यम्भाव इत्यादि फलति । इत्यादीति । खलेयवं खलेबुसमिति सप्तम्या अलुगिति -आदिपदग्राह्रम् ।
समुदाया एव निपात्यन्त इति । गणे तथा पाठ एव तेषां निपातनम्। तेन शतृशानजाद्यपि भवति।'सुपो धातुप्रातिपदिकयोः' इति च प्रक्रियाकार्यं न कर्तव्यमिति भावः। अव्ययीभावसंज्ञानि भवन्तीति। समाससंज्ञापि विधेया, अन्तोदातत्वं च । प्रातिपदकसंज्ञा च यथा स्यादिति। तिष्ठद्गु कालविशेष इति। कालविशेष इत्येतदुतरैरपि सम्बध्यते, अत एवान्ते वक्ष्यति-ठेते कालशब्दाःऽ इति, एतावान्कालविशेष इत्यस्याधिकार इत्यर्थः। विभक्त्यन्तरेण न समाबध्यन्ते इति। अव्यतिरिक्त एव प्रातिपदिकार्थे प्रयोग एषां कर्तव्यः, नान्यत्रेत्यर्थः। अन्यपदार्थे च वर्तन्त इति। तिष्ठद्गु, वहद्गु, आयतीगवमित्येतैरप्यस्य सम्बन्धः; अन्यथा कालशब्दत्वायोगात्। चकारोऽवधारणार्थ इति। अनेकार्थत्वान्निपातानाम्। अपरः समासो न भवतीति। वृत्यन्तरं न भवतीत्यर्थः। ठातिष्ठद्गुजपन्सध्याम्ऽ इति तु पञ्चम्या ठव्ययात्ऽ इति लुक्, न समासः। तिष्ठद्गु, वहद्ग्विति। लटः शत्रादेशो निपातनात्,'गोस्त्रियोः' इति ह्रस्वः। आयतीवगमित्यत्र तु पुंवद्भावाभावः शत्रादेशयः समासन्तश्च। खलेयवं खलेबुसमिति सप्तम्या अलुक्। लूयमानयवादिषु शानजादेशः। समभूमि, समपदातीति॥ समत्वं भूमएरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। कचित् समंभूमि समंपदातीति पाठः, तत्र पूर्वपदस्य मुमागमः। अन्ये तु संभूमि संपदातीति पठन्ति, तत्र समस्यान्तलोपः, संशब्दस्य वा समासः। सुषामादौ शोभनत्वं समस्य विगतत्वं दुष्टत्वं निर्गतत्वमपगतत्वं समस्येति। विग्रहः। आयतोसमा आयतीसमम्, शत्रादेशः, पूर्ववत् पुंवद्भावश्च । समा उ संवत्सरः। एवं पापसमं पुण्यसममिति। प्राह्वादिषु चतुर्षु प्रगतत्वमह्न इत्यादिविग्रहः। सङ्गतं प्रतिगतमस्य सम्प्रति। विपरीतमसम्प्रति। इच् कर्मव्यतीहार इति। अयमेव द्विदण्ड।लदिष्वपि विधीयत इति तत्राप्यव्ययीभावः। दण्डादण्डीति। दण्डेश्च दण्ड्èअश्च प्रहृत्येदं युध्दं प्रवृतम्,'तत्र तेनेदमिति सरूपे' इति बहुव्रीहिः। ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घः। इच अव्ययीभावत्वेनाव्ययत्वात्सुपो लुक्॥