2-1-15 अनुः यत्समया आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा लक्षणेन
समया समीपम्। अनुर्यस्य समीपवाची, तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुवनमशनिर्गतः। अनुरिति किम्? वनं समया। यत्समयेति किम्? वृक्षमनु विद्योतते विद्युत्। <<अव्ययं विभक्तिसमीप०>> २.१.६ इत्येव सिद्धे पुनर्वचनं विभाषार्थम्॥
यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ॥
<<अनुर्यत्समया>> - अनुर्यत्समया । लक्षणेनेत्यनुवर्तते ।य॑दिति समयायोगे 'अभितःपरितः' इति द्वितीयान्तम् । सामान्ये नपुंसकम् । तदाह — पदार्थमिति । अनुवनमिति । अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः । वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् । तदाह — वनस्य समीपं गत इत्यर्थ इति । वस्तुतो लक्षणीभूतस्य वनस्य समीपंगत इति यावत् ।अव्ययं विभक्ती॑त्यादिना सिद्धे विभाषार्थमिदं सूत्रम् । ततश्च 'वनस्यानु' इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्मप्रवचनीयसंज्ञा शङ्क्या, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात् । लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु 'वनमनु' इत्येववाक्यमुदाहार्यम् ।
यत्समयेति षष्ठीसमासोऽयम्। कथं पुनः समायाशब्देन योगे षष्ठी, यावता ठभितः परितः समयाऽ इति द्वितायया भवितव्यम्? नैष दोषः; समयाश्बदस्य मुख्योऽर्थः सामीप्यम्, तद्योगे द्वितीया। इह तु समयाशब्दवाचिन्यनुशब्दे समयाशब्दो वर्तते, तदाह - अनर्यत्समया। समयावाचीति। यस्य समयेति कोऽर्थः? समयावाचीत्यर्थः, तदिह मुख्येनार्थेनायोगद् द्वितीया न भवति, षषठ।लेव तु भवति, तस्याश्च समासः। न च पूरणगुणेति प्रतिषेधः; अनव्ययत्वात्। सामीप्ये हि वर्तमान- समयाशब्दोऽसतववाचित्वादव्ययम्। इह त्वनूशब्दार्थे वर्तते, तत्र यथा ठभिराभागेऽ इत्यादावनुकरणस्याव्ययसंज्ञा न भवति, तथास्यापि। एवं च यत्समयेत्यविभक्तिकः सौत्रो निर्देशः। वृतावपि यत्समयेति सूत्रानुकरणेन विभक्त्यभावः। तेनेति। तद्वाचिना शब्देनेत्यर्थः। अनुवनमिति। वनस्यान्विति सामूप्यसम्बन्धे षष्ठीसमासः, अस्यार्थमाह-वनं समयेति॥