विभाषा

2-1-11 विभाषा आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः

Sampurna sutra

Up

index: 2.1.11 sutra: विभाषा


समासः विभाषा

Neelesh Sanskrit Brief

Up

index: 2.1.11 sutra: विभाषा


इतः परमुक्ताः समासाः विकल्पेन भवन्ति ।

Neelesh English Brief

Up

index: 2.1.11 sutra: विभाषा


All the समासाः that are told henceforth (in the following sutras) happen optionally.

Kashika

Up

index: 2.1.11 sutra: विभाषा


विभाषा इत्ययमधिकारो वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामः, तद् विभाषा भवति। वक्ष्यति

Siddhanta Kaumudi

Up

index: 2.1.11 sutra: विभाषा


अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानज्ञापकात् ॥

Balamanorama

Up

index: 2.1.11 sutra: विभाषा


विभाषाऽपपरिबहिरञ्चवः पञ्चम्या - अपरिबहिः ।समस्यन्ते सोऽव्ययीभाव॑ इति शेषः । अपविष्ण्विति । अत्र 'अप' इत्यव्ययं वर्जने । विष्णुं वर्जयित्वा संसरणमित्यर्थः । अप विष्णोरिति-लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाऽभावात् । 'अपपरी वर्जने' इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात्तद्योगेपञ्चम्यपाङ्परिभि॑रिति पञ्चमी । तदन्तेनअपे॑त्यस्याव्ययीभावसमासः । सुब्लुक् । अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । समासात्सुबुत्पत्तिः । 'अव्ययादाप्सुपः' इति लुक् । एवं यथायथमग्रेऽपि ज्ञेयम् । परिविष्ण्विति । अत्रापि परिर्वर्जने । पञ्चम्यादि पूर्ववत् । बहिर्वनं बहिर्वनादिति । अस्मादेव ज्ञापकाद्बहिर्योगे पञ्चमी । इतरत् पूर्ववत् । दन्तत्वादम्भावः । प्राग्वनं प्राग्वनादिति । अञ्चूत्तरपदयोगे पञ्चमी ।