1-3-93 लुटि च क्लृपः धातवः कर्तरि कर्तरि परस्मैपदम् वा स्यसनोः
वृतादित्वादेव स्यसनोर्विकल्पः सिद्धः, लुटि विधीयते। चकारस्तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः। एवं तर्हीयं प्राप्तिः पूर्वां प्राप्तिं बाधेत। तस्माच्चकारः स्यसनोरनुकर्षणार्थः क्रियते। लुटि च स्यसनोश्च कृपेः परस्मैपदं वा भवति। कल्प्ता, कल्प्तारौ, कल्प्तारः। कल्प्स्यति। अकल्प्स्यत्। चिक्ऌप्सति। कल्पिता। कल्पिष्यते। अकल्पिष्यत। चिकल्पिषते॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः ॥
लुटि स्यसनोश्च कॢपेः परस्मैपदं वा स्यात् ॥
<<लुटि च कॢपः>> - लुटि च कॢपः । चकारात्वृद्भ्यः सस्यनो॑रित्यतः स्यसनोरित्यनुकृष्यते,शेषात्कर्तरी॑त्यतः परस्मैपदमिति, 'वा क्यषः' इत्यतो वेति च । तदाह — लुटि स्यसनोरित्यादिना ।
एवं तर्हीति। सामान्यस्य विशेषो वाधक इति भावः। कल्प्तेत्यादौ'तासि च कॢपः' इतीट्प्रतिषेधः॥ इति हरदतविरचितायां पदमञ्जर्यां प्रथमाध्यायस्य तृतीयः पादः॥