वृद्भ्यः स्यसनोः

1-3-92 वृद्भ्यः स्यसनोः धातवः कर्तरि कर्तरि परस्मैपदम् वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्युतादिष्वेव वृतादयः पठ्यन्ते। <<वृतु वर्तने>>, <<वृधु वृद्धौ>>, <<शृधु शब्दकुत्सायाम्>> ,<<स्यन्दू प्रस्रवणे>>, <<कृपू सामर्थ्ये>> एतेभ्यो धातुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति। वृत् — वर्त्स्यति, अवर्त्स्यत्, विवृत्सति, वर्तिष्यते, अवर्तिष्यत, विवर्तिषते। वृध् — वर्त्स्यति, अवर्त्स्यत्, विवृत्सति, वर्धिष्यते, अवर्धिष्यत, विवर्धिषते। स्यसनोरिति किम्? वर्तते।

Siddhanta Kaumudi

Up

वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥

Laghu Siddhanta Kaumudi

Up

वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वृद्भ्यः स्यसनोः>> - वृद्भ्यः । बहुवचनाद्वृतादिभ्य इति गम्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते, 'वा क्यषः' इत्यतो वेति च । तदाह — वृतादिभ्य इति ।

Padamanjari

Up

'स्यसनोः' इति सत्सप्तमी। द्यौ तादिष्वेव वृतादयः पठ।ल्न्त इति। यद्येवमियं प्राप्तिर्वृद्भ्यः पूर्वां प्राप्तिं बाधेत, ततश्च अवृतत्, अवर्तिष्टेति लुङ् इविकल्पो न स्यात् तथा चोतरत्र चकारः क्रियते-इमां प्राप्तिं पक्षे इतराप्राप्तिर्न बाधेतेति, द्यौतादिपाठसार्थ्यात्सोऽपि भविष्यति। यद्वा-लुङीत्यत्र स्वरयिष्यते, वर्त्यतीत्यादौ'न वृद्भ्यश्चतुर्भ्यः' इति इट्प्रतिषेधः॥