निगरणचलनार्थेभ्यश्च

1-3-87 निगरणचलनार्थेभ्यः च धातवः कर्तरि कर्तरि परस्मैपदम् णेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णेरिति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते। निगरणमभ्यवहारः। चलनं कम्पनम्। निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। निगारयति। आशयति। भोजयति। चलनार्थेभ्यः — चलयति। चोपयति। कम्पयति। अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च॥ अदेः प्रतिषेधो वक्तव्यः॥ अत्ति देवदत्तः। आदयते देवदत्तेन॥

Siddhanta Kaumudi

Up

निगारयति । आशयति । भोजयति । चलयति । कम्पयति ।<!अदेः प्रतिषेधः !> (वार्तिकम्) ॥ आदयते देवदत्तेन । गतिबुद्धि <{SK540}> इति कर्मत्वम् ॥<!आदिखाद्योर्नेति प्रतिषिद्धम् !> (वार्तिकम्) ॥ निगरणचलन <{SK2753}> इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् <{SK2159}> इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निगरणचलनार्थेभ्यश्च>> - निगरण । निगरणं भक्षणम् । चलनं — कम्पनम् । एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे प्रुद्रुरुआऊणां ग्रहणं तु अचलनार्थानामेव । अत एव मूले प्रापयतीत्यादि व्याख्यातम् । पानमपि चकोरजिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी॑ । इति श्रीहर्षश्लोके आचामयेति पृथक्पदम् । अः विष्णुः, तस्य स्त्री ई = लक्ष्मीः । तया सहिता से इत्येकारान्तस्य सेशब्दस्य संबोधनम् । 'एङ्ह्रस्वात्' इति सम्बुद्धिलोप इति व्याख्येयमिति प्रौढमनोरमायां स्थितम् । वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनाऽसंभवादाचामिरादरे लाक्षमिकःअतो निगरणार्थकत्वाऽभावान्न परस्मैपदम् । नचैवं सति प्रत्यवसानार्थकत्वाऽभावाच्चक्,ुषोःगतिबुद्धी॑ति कर्मत्वं न स्यादिति शङ्क्यम्, न ह्राचामिरत्र केवले आदरे वर्तते, किंतु दर्शनपूर्वकादरे वर्तते । सादरज्ञाने लाक्षणिक इति यावत् । ततश्च बुद्ध्यर्थकत्वादाचामेश्चक्षुषोः कर्मत्वं निर्बाधमित्यादि शब्देन्धुशेखरे प्रपञ्चितम् । अदेः प्रतिषेध इति । अदेण्र्यन्तान्निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः ।आदयते देवदत्तेने॑त्यत्र अदेः प्रत्यवसानार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह — निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेध इति । नतु शेषात्कर्तरीति प्राप्तस्येत्येवकारार्थः, 'अनन्तरस्य' इति न्यायादिति भावः ।

Padamanjari

Up

चलयतीति।'चल कम्पने' घटादिः। आदयते देवदतेनेति।'गतिबुद्धि' इत्यादिनाऽणौ कर्तुः कर्मसंज्ञा प्राप्ता, ठतिखाद्योः प्रतिषेधःऽ इति वचनान्न भवति॥