1-3-89 न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः धातवः कर्तरि कर्तरि परस्मैपदम् णेः
index: 1.3.89 sutra: न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
पूर्वेण योगद्वयेन कर्त्रभिप्रयक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विहितम्। तस्य प्रतिषेधोऽयमुच्यते। यत् कर्त्रभिप्रायविषयमात्मनेपदं तदवस्थितमेव, न प्रतिषिध्यते। पा दमि अङ्यम आङ्यस परिमुह रुचि नृति वद वस इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति। णिचश्च 1.3.74 इत्यात्मनेपदं भवति। तत्र पिबतिर्निगरणार्थः। दमिप्रभृतयश्चित्तवत्कर्तृकाः। नृतिश्चलनार्थोऽपि। एषां परस्मैपदं न भवति। पा पाययते। दमि दमयते। आङ्यमायामयते। यमोऽपरिवेषणे इति मित्संज्ञा प्रतिषिध्यते। अङ्यस आयासयते। परिमुह परिमोहयते। रुचि रोचयते। नृति नर्तयते। वद वादयते। वस वासयते। पादिषु धेट उपसङ्ख्यानम्। धापयेते शिशुमेकं समीची।
index: 1.3.89 sutra: न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते ।<!धेट उपसंख्यानम् !> (वार्तिकम्) ॥ धापयेते शिशुमेकं समीची । अकर्त्रभिप्राये शेषात् <{SK2159}> इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । भिक्षां वासयति । वा क्यषः <{SK2669}> । लोहितायति । लोहितायते । द्युद्भ्यो लुङि <{SK2345}> अद्युतत् । अद्योतिष्ट । वृद्भ्यः स्यसनोः <{SK2347}> । वर्त्सयति । वर्तिष्यते । विवृत्सति । विवर्तिषते । लुटि च कॢपः <{SK2341}> कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । चिकॢप्सति । चिकल्पिषते । चिकॢप्सते ॥ समाप्ता पदव्यवस्था ॥। इति तिङन्तपरस्मैपदप्रकरणम् ।
index: 1.3.89 sutra: न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः - न पादम्याङ्यम् । पा दमि आङ्यमाङ्यमाङ्यस परिमुहरुचि नृति वद वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति — पिबतिर्निगरणार्थ इति । ततश्च 'निगरणचलनर्थेभ्यः' इति प्राप्तिरिति भावः । नृतिरिति । नृतिश्चलनार्थकः । अणौ चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वयनेनेति ।अणावकर्मका॑दिति,निगरणचलनार्थेभ्यश्च॑ इति च सूत्रद्वयेनेत्यर्थः । पाययते इति ।शाच्छासाह्वाव्यावेपां यु॑गिति पुकोऽपवादो युक् । दमयते इति ।जनीजृष्क्नसुरञ्जोऽमन्ताश्चे॑त मित्त्वाद्ध्रस्वः । ननु दिवादौ दमिः सकर्मक इत्युक्तम्, अतः कथमिहअणावकर्मका॑दिति प्राप्तिरिति चेद्दमेः परस्मैनिषेधादेव दमिरकर्मकोऽपि । अतो दमिः सकर्मक इत्यस्य न विरोधः । आयामयते इति । 'यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः । वासयते इति । 'वस निवासे' इति भौवादिकस्यैवात्र ग्रहणम्, नतु 'वस आच्छादने' इत्यादादिकस्याऽपि, तस्य सकर्मकत्वादेवाऽप्राप्तेः,लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहण॑मित्युक्तेश्च । धेट #उपसङ्ख्यानमिति ।परस्मैपदनिषेधस्ये॑ति शेषः । धापयेते शिशुमिति मन्त्रः । ननुवत्सान् पाययति पयः॑,दमयन्ती कमनीयतामदं॑,भिक्षा वासयती॑ति च कथम् ।न पादम्यडमेति परस्मैपदस्य निषेधादित्यत आह — अकत्र्रभिप्राये इति ।अनन्तरस्ये॑ति न्यायेननिगरणचलनार्थेभ्यश्च॑,॒अणावकर्मकाटदिति सूत्रद्वयप्राप्तस्यैवन पादम्याङ्यमाङ्यमसे॑ति निषेध इति भावः । 'वा क्यषः' इत्यादि प्राग्व्याख्यातमपि सूत्रक्रमेण पुनरुपात्तम् । इतिपरस्मैपदव्यवस्था । अथ परिभाषाप्रकरणम्॥
index: 1.3.89 sutra: न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः
लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणमिति पिबतिवसत्योर्ग्रहणम्, न पातिवस्त्योः; तेनाणावकर्मकत्वविवक्षायां परस्मैपदं भवत्येव। पाययते इति।'शाच्छासाह्वाव्यावेपां युक्' । पादिष्विति॥ धेडप्यस्मिन् सुत्रे पठितव्य इत्यर्थः। समीचि इति प्रथमाद्विवचने'वा च्छन्दसि' इति पूर्वसवर्णदीर्घः॥