बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः

1-3-86 बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यः णेः धातवः कर्तरि कर्तरि परस्मैपदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<णिचश्च>> १.३.७४ इति कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। बुध युध नश जन इङ् प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। बोधयति। योधयति। नाशयति। जनयति। अध्यापयति। प्रावयति। द्रावयति। स्रावयति। येऽत्राकर्मकास्तेषाम् <<अणावकर्मकाच्चित्तवत्कर्तृकात्>> १.३.८८ इत्येवं सिद्धे वचनमिदमचित्तवत्कर्तृकार्थम्। बोधयति पद्मम्। योधयन्ति काष्ठानि। नाशयति दुःखम्। जनयति सुखम्। येऽत्र चलनार्था अपि तेषां <<निगरणचलनार्थेभ्यश्च>> १.३.८७ इति सिद्धे यदा न चलनार्थास्तदर्थं वचनम्। प्रवते। प्राप्नोतीति गम्यते। अयो द्रवति। विलीयत इत्यर्थः। कुण्डिका स्रवति। स्यन्दत इत्यर्थः। एतद्विषयाण्युदाहरणानि॥

Siddhanta Kaumudi

Up

एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्च <{SK2564}> इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः>> - बुधयुध । बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः । बोधयति पद्ममिति ।सूर्य॑इति शेषः । बुधिर्विकसनार्थकः । विकसति पद्मम् । तद्विकासयति सूर्य इत्यर्थः ।अणावकर्मकाच्चित्तवत्कर्तृका॑दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत् । योधयति काष्ठानीति । काष्ठानि युध्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अणावचित्तवत्कर्तृकत्वात्अणावकर्मका॑दित्यस्य न प्राप्तिः । अतएव योधयति देवदत्तमिति नोदाहृतम्,अणावकर्मकाच्चित्तवत्कर्तृका॑दित्येव सिद्धेः । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति । दुखं नश्यति, तन्नाशयति हरिरित्यर्थः । जनयति सुखमिति । जायते सुखम्, तज्जनयति हरिरित्यर्थः । अध्यापयतीति । अधीते वेदं विधिः, तमध्यापयतीत्यर्थः । 'प्रु गतौ' इत्यस्योदाहरति — प्रावयतीति । गत्यर्थकत्वं मत्वा आह — प्रापयतीत्यर्थ इति । द्रावयतीति । द्रवत्याज्यं, तद्द्रावयतीत्यर्थः । धातोद्र्रवीभावार्थकत्वं मत्वा आह — स्यान्दयतीत्यर्थ इति ।प्रीतिं भक्तजनस्य यो जनयते॑ इत्यात्मनेपदं तु प्रामादिकमेव । यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम् । प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः ।

Padamanjari

Up

प्राप्नोतीति। गम्यत इति वचनं तु प्राप्तिहेतुर्व्यापारः। कुण्जिका स्त्रवतीति। कुण्डिकायामुदकं कुण्डिकोदकव्यापारो वा कुण्डिकायां च्छिद्रवत्यामुपचर्यते। ननु स्यन्दनमपि द्रवद्रव्यकर्तृकं चलनमेव; तथा प्रसिद्ध्यभावात्॥