1-3-85 विभाषा अकर्मकात् धातवः कर्तरि कर्तरि परस्मैपदम् रमः
रम उपादिति च वर्तते। पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते। उपपूर्वाद् रमतेरकर्मकाद् विभाषा परस्मैपदं भवति। यावद्भुक्तमुपरमति, यावद्भुक्तमुपरमते। निवर्तत इत्यर्थः॥
उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥