1-3-84 उपात् च धातवः कर्तरि कर्तरि परस्मैपदम् रमः
रम इत्येव। उपपूर्वाद् रमतेः परस्मैपदं भवति। देवदत्तमुपरमति। यज्ञदत्तमुपरमति। उपरमयतीति यावत्। अन्तर्भावितण्यर्थोऽत्र रमिः। पृथग्योगकरणमुत्तरार्थम्। अकर्मकाद् विभाषां वक्ष्यति सा उपपूर्वादेव यथा स्यात्॥
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥ इति परस्मैपदप्रक्रिया ॥ इति पदव्यवस्था ॥
<<उपाच्च>> - उपाच्च । उपपूर्वादपि रमेः परस्मैपदमित्यर्थः । उत्तरसूत्रे उपादित्यस्यैवाऽनुवृत्तयेव्याङ्पर्युपेभ्यो रमे॑रिति नोक्तम् । अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम्, तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात् । अतः सकर्मकमुदाहरति — यज्ञदत्तमुपरमतीति । ननु विरामार्थकत्वात्कथं सकर्मकतेत्यत आह — उपरमयतीत्यर्थ इति । ननु णिजभावात्कथमयमर्थो लभ्यते इत्यत आह — अन्तर्भावितण्यर्थोऽयमिति । धातूनामनेकार्थत्वादिति भावः ।
उपपूर्वो रमिर्निवृत्तिविनाशयोर्वर्तते, उपरतोऽध्ययनाद्, उपरतोनिधनादिदि। न चानयोरुभयोरप्यर्थयोः सकर्मकत्वमुपपद्यते, तत्कथं सकर्मकस्योदाहरणम्? अत आह-उपरमयति यावदिति। कथं पुनरण्यन्तो ण्यर्थे वर्तते? अत आह-अन्तर्भावितण्यर्थ इति॥