1-3-83 व्याङ्परिभ्यः रमः धातवः कर्तरि कर्तरि परस्मैपदम्
<<रमु क्रीडायाम्>>। अनुदात्तेत्त्वादात्मनेपदे प्राप्ते परस्मैपदं विधीयते। वि आङ् परि इत्येवंपूर्वाद् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्य इति किम् ? अभिरमते॥
विरमति ॥
रमु क्रीडायाम्॥ विरमति॥