परेर्मृषः

1-3-82 परेः मृषः धातवः कर्तरि कर्तरि परस्मैपदम्

Kashika

Up

index: 1.3.82 sutra: परेर्मृषः


मृष तितिक्षायाम् स्वरितेत्। ततः तथा एव आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। परिपूर्वाद् मृष्यतेः परस्मैपदं भवति। परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति। परेः इति किम्? आमृष्यते। वहतिमपि केचिदत्र अनुवर्तयन्ति परिवहति।

Siddhanta Kaumudi

Up

index: 1.3.82 sutra: परेर्मृषः


परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.3.82 sutra: परेर्मृषः


परिमृष्यति॥

Balamanorama

Up

index: 1.3.82 sutra: परेर्मृषः


परेर्मृषः - परेर्मृषः ।परस्मैपद॑मिति शेषः ।मृष तितक्षाया॑मिति दैवादिकस्य स्वरितेत्त्वात्पदद्वये प्राप्तेऽयं विदिः । तदाह — परिमृष्यतीति । चौरादिकस्याऽपिआधृषाद्वे॑ति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव- परिमर्षतीति । भौवादिकस्य त्विति ।मृषु सहने सेचने चे॑ति भौवादिकस्यतु परस्मैपदित्वात्परिमर्षतीत्येव रूपं सिद्धम् । अतोऽमिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति । 'परे' रिति योगो विभज्यते । 'वह' इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । 'मृष' इति योगान्तरम् । तत्र परेरित्यनुवर्तते, परेर्मृषः पर्समैपदमित्युक्तोऽर्थ इति केचिदाहुरित्यर्थः । भाष्ये त्वयं योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ।१.३.८३ ।व्याङ्परिभ्यो रमः ।परस्मैपद॑मिति शेषः । रमेरनुदात्तेत्त्वाद्विधिरयम् । विरमतीति । आरमति, परिरमतीत्यप्युदाहार्यम् ।